SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८८ शारीरकमीमांसाभाष्ये [अ. १. पिण्डे पर्यवस्यन्तः पिण्डस्यापि चेतनशरीरत्वेन तत्पकारत्वात् पिण्डशरीरकचेतनस्यापि परमात्मप्रकारत्वाच्च परमात्मन्येव पर्यवस्यन्तीति सर्वशब्दानां परमात्मैव वाच्य इति परमात्मवाचिशब्देन सामानाधिकरण्यं मुख्यमेव ॥ ननु–'खण्डो गौः खण्डश्शुक्ल'इति जातिगुणवाचिनामेव पदानां द्रव्यवाचिपदैस्सह सामानाधिकरण्यं दृष्टम् ; द्रव्याणां तु द्रव्यान्तरप्रकारत्वे मत्वर्थीवप्रत्ययो दृष्टः, यथा-'दण्डी कुण्डली' इति नैवम् , जातिर्वा गुणो वा द्रव्यं वा नैतेष्वेकमेव सामानाधिकरण्ये प्रयोजकम्, अन्योन्यस्मिन् व्यभिचारात् , यस्य पदार्थस्य कस्यचित्कारतयैव सद्भावः, तस्य तदपृथक्सिद्धिस्थितिप्रतीतिभिस्तद्वाचिनां शब्दानां स्वाभिधेयविशिष्टद्रव्यवाचित्वाद्धर्मान्तरविशिष्टतहव्यवाचिना शब्देन सामानाधिकरण्यं युक्तमेव । यत्र पुनः पृथक्सिद्धस्य स्वनिष्ठस्यैव द्रव्यस्य कदाचित्कचिद्दव्यान्तरप्रकारत्वमिष्यते तत्र मत्वर्थीयप्रत्यय इति निरवद्यम् ।। तदेवं परमात्मनश्शरीरतया तत्प्रकारत्वादचिाद्वीशष्ट जीवस्यापि जीवनिर्देशविशेषरूपा अहंत्वमित्यादिशब्दाः परमात्मानमेवाऽचक्षत इति २"तत्त्वमास"इति सामानाधिकरण्येनोपसंहृतम् एवं च सति परमात्मानं प्रति जीवस्य शरीरतयाऽन्वयाज्जीवगता धर्माः परमात्मानं न स्पृशन्ति, यथा स्वशरीरगता बालत्वयुवत्वस्थविरत्वादयो धर्माः जीवं न स्पृशन्ति; अतः २ 'तत्त्वमसि'इति सामानाधिकरण्ये तत्पदं जगत्कारणभूतं सत्यसङ्कल्प सर्वकल्याणगुणाकरं निरस्तसमस्तहेयगन्धं परमात्मानमाचष्टे त्वमिति च तमेव सशरीरजीवशरीरकमाचष्ट इति सामानाधिकरण्यं मुख्यवृत्तम् प्रकरणाविरोधस्सर्वश्रुत्यविरोधो ब्रह्मणि निरवये कल्याणकताने अविद्यादिदोषगन्धाभावश्चाअतो जीवसामानाधिकरण्यमपि विशेषणभूताज्जीवाद१. जीवस्य जीवनि पा॥ २. छा. ६-८-७॥ ३. भूतजीवा. पा। For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy