SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीजिनराजचतुर्विंशतिकास्तोत्रम् अथ श्रीजिनराजचतुर्विंशतिकास्तोत्रम् ॥ ३८ ॥ मेरोः किं शिखरस्थकल्पलतिकासर्वव्रताणुव्रतोद्घाटे वोद्भटकुञ्चिकोज्झितमहाराज्यश्रियोऽत्र च्छटाः । किं मुक्तेर्वरणस्रजेव सुजटां दृष्टेति शीर्षांसगां, यस्योत्प्रेक्षक कावदादिशतु मे श्रीआदिदेवः श्रियम् ॥ १ ॥ यत् पूर्व वृषभं क्षमाभरधरं सर्वसहं सर्वतः, स्वमेऽपश्यदसौ प्रसूरथ जिनोर्वकेकगोवृषः । यः स्वस्मिंस्तदलञ्चकार वृषभेत्याख्यां क्षितौ सार्थकां, स श्रीआदि जिनस्तनोतु नमतां शिष्टेष्टतुष्टिप्रथाम् ॥ २ ॥ यस्मिन् गर्भगते जितैव विजया मित्रैस्तथाऽक्षादिक, ४५ क्रीडायां जितशत्रुणाऽथ युवताराज्यव्रतावस्थया । यस्तिष्ठन् विषयैर्द्विषद्भिरजितो घोरोपसर्गैः क्रमा जज्ञे श्रीअजितः शिवाय स जिनः सान्वर्थनामा स्वयम् ॥३॥ पूर्णाशा जननी समस्तजनता शङ्खानिरारामभूः कल्पानल्परमानिधिः प्रतिपदं सत्संनिधिः सद्विधिः । आसीत् सत्यतमार्थनाम दधतो यस्यावतारेऽवनौ, भूयाच्छं भवनाय शम्भवजिनः सद्भावभव्यात्मनाम् ॥ ४ ॥ मुक्तात्माऽप्यविमुक्तकोऽक्षरमयव्यक्तिर्न लिप्यालयः, शश्वत् संवरजोऽपि संवरकरः श्रीदोऽप्यहोऽकिञ्चनः । विद्वानप्य गुरुर्हताहितपदः शान्तोऽपि यः सौस्तवो, दिव्यामन्दमुदेऽभिनन्दनजिनः सुत्रामदत्तायः ॥ ५ ॥ निःशेषार्थविनिश्चयेषु सुमतिनों केवलं मङ्गला - Sज्ञानम्लानितया नु विश्वजनता यस्यावतारेऽभवत् । न प्राच्येव यथार्कभाभिरमला शेषा अभि स्युर्दिशः, किन्तु श्री सुमतिस्तनोतु सुमतिं वोऽसौ यथार्थाह्वयः ॥ ६ ॥ For Private and Personal Use Only
SR No.020687
Book TitleJin Stotra Kosh
Original Sutra AuthorN/A
AuthorChandrodayvijay, Suryodayvijay
PublisherKot Tapgacch Murtipujak Shwetambar Jain Sangh
Publication Year1958
Total Pages101
LanguageHindi
ClassificationDictionary
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy