SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२ श्रीजिनस्तोत्रकोशः अथ श्रीपार्श्वनाथस्वामिस्तवनम् ॥ ३७॥ श्रीवामेयजिनं निरस्तवृजिनं दुष्कर्ममाजिनं भोगीन्द्रध्वजिनं विगातस्वजिनं भामण्डलभ्राजिनम् । दुष्टारिष्टजिनं खजिगतिजिनं दुःखाङ्कुरोत्थंजिनं सेवे पार्श्वसुसेव्यपार्श्वमसकृत् श्रीपार्श्वविश्वेश्वरम् ॥१॥ अर्हद्भक्तिभृतात्मनः परिवृति कत्तु मुदा मन्त्रयन्त्येताः सप्त जगत् स्वसंपद इवोद्वीक्षत्यसौ वाञ् शयन् । यन्मूर्ध्नि स्फुटकूटतः प्रकटिताः साटोपमुत्कण्ठिताः स श्रीपार्श्वजिनस्तनोति हृदि सेवासं शिवाशाप्तिकृत् ॥ २॥ श्रीपार्श्वनामाम्बुधरोन्नतिः स्याद्यस्यान्तरेऽनन्तसुखाम्बुवृष्टिः । द्विधा भियस्ते स कथं बिभेति संसारदावानलदाहनीरम् ॥ ३ ॥ नाम्नाऽपि तेऽभूजिननामशेषा यां योगिनां संवरपूर्णयोगात् । त्वया सहाऽभ्येतु कथं जयं सा संमोहधूलीहरणे समीरम् ॥ ४॥ श्रियः पुरस्तस्य लुठेयुरिष्टाः सदोचितं स्वोरसि तेऽह्रिपद्मम् । श्रीपार्श्व ! यः श्रीसदनं धरेता मायारसादारणसारसीरम् ॥५॥ व्याघ्रादयः सद्गतिगामिनश्चे दाश्च यस्याः कुरुते कथं तत् । स्थिरैकभक्तिस्तव पार्श्व! तस्यां नमामि वीरं गिरिसारधीरम् ॥ ६॥ यद्वाङ्मनःकरणपावनतथ्यतीर्थ मन्तधृतं गुणभृतां मुदितं त्रिलोक्याम् । संस्मर्यते तव तदीश ! चिदाद्यनन्तभावावनामसुरदानवमानवेन ॥ ७ ॥ - v - ~ For Private and Personal Use Only
SR No.020687
Book TitleJin Stotra Kosh
Original Sutra AuthorN/A
AuthorChandrodayvijay, Suryodayvijay
PublisherKot Tapgacch Murtipujak Shwetambar Jain Sangh
Publication Year1958
Total Pages101
LanguageHindi
ClassificationDictionary
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy