SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीजिनस्तोत्रकोशः विज्ञानं तव सकलार्थगोचरं __ यद्देवान्ये कुमतधियोंऽशवादिनः स्युः॥२॥ यत्पूर्वापरनिहतार्थतावकाशं त्वद्वाक्यं क्वचिदपि नास्ति साम्प्रतं तत् । सापेक्षंसकलनयावलम्बिभावाद्यन्नेतःपरसमया मिथो विपक्षाः ॥३॥ स्याद्वादाधिगतमशेषवस्तुजातं सार्व त्वं वदसि वरं प्रमाणवाक्यैः । एकांशोपगतगिरः परेऽर्थसाथै दुर्नीत्या तदिह बुधा भवद्वचःस्थाः४ प्रहर्षिणी छन्दः । धितहर्षविनयसूरितविनुतगुणस्त्वं जयप्रदो भव मे। श्रीपद्मप्रभचिन्तामणिरेष च धर्महंसजयः ॥५॥ इति श्रीपद्मप्रभस्तोत्रम् ॥ १२ ॥ श्रीसुपार्श्वनाथजिनस्तोत्रम् ॥ १३ ॥ सुप्रतिष्ठ प्रतिष्ठ क्षितीश प्रतिष्ठापिताऽभीष्टसाश्चर्यजन्मोत्सवम् । सम्पदानन्दसम्पन्नदेहोदयं श्रीसुपार्श्व सुपार्श्व जिनं संस्तुवे ॥१॥ चारुसारूप्यमानोऽपि नो दुर्नयी सौगतोऽपि स्थिरद्रव्यरूपार्थवित् सत्यतासंनिकर्षप्रमाणोऽप्यहो सन्मती श्रीसुपार्श्वेश्वरस्त्वं जय ॥२॥ देहकर्मादिशून्यः शिवः सर्वदा सोपदेशत्वमङ्गप्रयोगाद्भवेत् । कण्टकेष्वेवमन्योन्यविध्वंसिषु ध्येयते धृष्यमुद्दीप्यते शासनम् ॥ ३॥ पक्षपातं विनैवं द्वयस्य द्वयं चित्रकारि प्रतीमः परीक्षापदे । सत्यतार्थप्रधानं तवानुत्तरं विद्यते स्थाननिर्बन्धितावादिनाम् ॥ ४ ॥ स्रग्विणी। एवं सुपार्श्वदेवः स्तोत्रपथं प्रापितस्तनोतु मतिम् । श्रीहर्षविनयसूरितरूपो मे धर्महंसरुचिम् ॥ ५॥ ॥ इति श्रीसुपार्श्वनाथजिनस्तोत्रम् ॥ १३॥ For Private and Personal Use Only
SR No.020687
Book TitleJin Stotra Kosh
Original Sutra AuthorN/A
AuthorChandrodayvijay, Suryodayvijay
PublisherKot Tapgacch Murtipujak Shwetambar Jain Sangh
Publication Year1958
Total Pages101
LanguageHindi
ClassificationDictionary
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy