SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अद्भुतपद्मावतीकल्पे [श्लोकाः ३८दिक्छदनममलकमलं तदमृतभावोद्भवं सदा विकचम् । तत्कर्णिकमध्यगतं सुधोद्भवात्मानमर्जुनभम् ॥८॥ पर्यङ्कासनसंस्थितमिति ध्यात्वाऽथ हृदि करवलेन । षोडशदशमम्बुरुहं तत्कर्णिकमध्यमूलस्थान् ॥९॥ 'पविनन्दावर्तयवांस्तदुपरि संस्थाप्य पार्श्वजिननाथम् । निखिलकललक्षणाढ्यं विविधचतुस्त्रिंशदतिशयोपेतम् ॥ १०॥ पापमथनाष्टकमहाप्रातिहार्ययुक्तं ततस्ततः परिधौ। तत्केशरेषु मरुदेव्यादिकजननीगणं न्यस्य ॥ ११ ॥ तत्पत्रगता रोहिणिमुख्याश्च द्वयष्टदेवताः क्रमशः । इति विन्यस्य च मन्त्री ध्यानविधानं करोतु सदा ॥ १२॥ चतुर्भिः कलापकम् । अर्हत्सिद्धाचार्योपाध्यायान् सर्वसाधुयुतान् ।। अङ्गुष्ठाद्यङ्गुलितत्पर्वसु संन्यस्य वाद्यन्तान् ॥ १३ ॥ होमान्ताः प्रणवनमोमुख्याः पञ्चपरमेष्ठिमध्यगताः । हाँ ह्रीं हूँ ह्रौं हः शरबीजाः प्रान्त्यादिदेशपदाः ॥ १४ ॥ श्रीन् वारान् पञ्चाङ्गुलिमन्त्रणमाधाय जल्पितैर्मन्त्रैः । सर्वकरण तैरपि ललाटमुख्यादिपञ्चकं मन्त्र्यम् ॥ १५ ॥ सव्यासव्यकराभ्यां त्रीनथ हृदयं शिरःशिखां वारान् । कवचीकृत्य च तैरपि मुख्यं मन्त्रं ततो ध्यायेत् ॥ १६ ॥ चतुर्भिः कलापकम् ॥ इति शकलविधानं शाकिनीदुष्टभूत ___ ग्रहगणभवपीडाकष्टनिष्ठापनाग्निः । स्वकवपुषि विधाय भ्रान्तिनिर्धाटनं च तदनु रचतु मन्त्री देवीपूजाक्रमं हि ॥ १७ ॥ इति श्वेताम्बरचक्रचूडामणिश्रीयशोभद्रोपाध्यायशिष्यचन्द्रप्रकाशितेऽद्भुतपद्मावतीकल्पे शकलीकरणलक्षणं तृतीयं समाप्तम् ॥३॥ १ वज्रम् । २ स्वाहान्ताः । ३ ॐकार०। ४ 'अरिहंताणं' इत्यादीनि लभ्यन्ते । ५ शीर्ष, वदनं, हृदयं, नाभिः, पादौ ति मुख्यादिपञ्चकम् । ६ आद्यप्रकरणद्वयं न कापि दृष्टिगोचरीबभूव मे । For Private And Personal Use Only
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy