SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir ३४ सविवरणे भैरवपद्मावतीकल्पे [श्लोकाः ६।१६अग्निमण्डलत्रयसम्पुटं कुर्यात् । 'अथ' त्रिपुटिताग्निपुरानन्तरं 'तद्बाह्यप्रदेशेषु' तदग्निमण्डलबहिःप्रदेशेषु 'कोष्ठेषु' नवकोष्ठेषु भुवननाथम्' ह्रींकारं लिखेत्। 'कोष्ठाग्रान्तरनिविष्टमङ्कुशं बीजम्' कोष्ठाग्रेषु तदन्तरेषु च निवेशितक्रोकारम् । 'वलय' वेष्टनम् 'पद्मावत्याः' पद्मावतीदेव्याः ‘मन्त्रेण' वक्ष्यमाणमन्त्रेण 'करोतु' कुर्यात् 'तद्वाह्ये' तन्मण्डलबाह्ये । वलयमन्त्रोद्धारःॐ ह्रीं हैं हस्क्ली पद्मे ! पद्मकटिनि ! अमुका मम वश्याकृष्टिं कुरु कुरु संवौषट् ।। अङ्कशरोधं कुर्यात् तद्बाह्ये मायया त्रिधा वेष्टयम् । यावकमलयजचन्दनकाश्मीराद्यैरिदं लिखेद् यन्त्रम् ॥१६॥ 'अङ्कुशरोधं कुर्यात्' क्रोकाररुद्धं कुर्यात् । क्व ? 'तद्वाह्ये' तन्मन्त्रवलयबहिःप्रदेशे 'मायया' हीकारेण 'त्रिधा वेष्ट्यम्' त्रिप्रकारेणावेष्ट्यम् । 'यावकं' अलक्तकम्, 'मलयज' श्रीगन्धम् , 'चन्दनम्' रक्तचन्दनम् , 'काश्मीरम्' कुङ्कुमम्, इत्यादि सुगन्धद्रव्यैः 'इदं लिखेद् यन्त्रम्' एतत् कथितयन्त्रं लिखेत् ।। वस्त्रे रजस्वलायाः खदिराङ्गारेण तापयेद् धीमान् । कुरुते ऽभिलषितवनिताकृष्टिं सप्ताहमध्येन॥१७॥ 'वस्त्रे रजस्वलायाः' पुष्पवत्या वसने लिखित्वा 'खदिराङ्गारेण तापयेत्' खदिरकाष्ठजनिताङ्गारेण तापनं कुर्यात् । कः? 'धीमान्' बुद्धिमान् । 'अभिलषितवनिताकृष्टिम्' अभिप्रेताङ्गनाकृष्टिम् 'कुरुते' कुर्यात् । कथम् ? 'सप्ताहमध्येन' सप्तदिनाभ्यन्तरतः ॥ रविदुग्धादिविलिप्से युवतिकपालेऽथवा लिखेद् यन्त्रम् । पुरुषाकृष्टौ च पुनर्नुकपाले यन्त्रमेवेदम् ॥१८॥ 'रविदुग्धादि' अर्कक्षीर-स्नुहीक्षीर-गृहधूमराजिका-लवणेत्यादिभिः 'विलिप्ते' विशेषेण लिप्ते। कस्मिन् ? युवतिकपाले अथवा प्राककथितरजस्वलावस्त्राभावे अनेन प्रकारेण वा 'लिखेद् यन्त्रम्' प्राककथितयन्त्रं विलिखेत्। 'पुरुषाकृष्टौ च' पुरुषाकर्षणविषये 'पुनः' पश्चात् 'नृकपाले' पुरुषकपाले ‘यन्त्रमेवेदम् ' एतदेव यन्त्रं लिखेत् ।। नाम तत्त्वविगर्भितं बहिरालिखेच्छिखिमण्डलं रेफमन्त्रवृतं श्मशानजकपरे विलिखेदिदम् । तापयेत् खदिराग्निना हिमकुङ्कमादिभिरादरा दानयत्यवलां बलादिनसप्तकैर्मदविह्वलाम् ॥१९॥ १ कुरुतेऽमिलिखित इति ख पाठः। २ विदर्भितं इति ख पाठः । For Private And Personal Use Only
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy