________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२३
परि० ३०]
अनुभवसिद्धमन्त्रद्वात्रिंशिका । ॐचल चल प्रचल [२] विश्वं कम्पय [२] च । । वेलात्रयं ठठ स्वाहा विश्वं कम्प कम्पेति च ॥३१॥ श्रीपा पट्टके मन्त्रं लिखित्वैनं महामतिः। जातीपुष्पैस्ततो जापं पञ्चायुतप्रमाणकम् ॥३२॥ दशांशेन च होतव्यं त्रिमधुरेण संयुतम् । बदरप्रमाणगुटिकाभिर्महिषाक्ष व द्रुतम् ॥३३॥ कृष्णाष्टम्यां निशामध्ये नवम्यां भास्करोदये । अष्टोत्तरशतं रक्तपुष्पाणि प्रजपेत् ततः ॥३४॥ चेटकप्रतिमां कृत्वा चिताङ्गारेण मण्डले । हृदये साध्यनामं च लिखित्वा प्रजपेत् ततः ॥३५॥ निधूमाङ्गारसम्पूर्ण घटमाधाय होमयेत् । तान्येव पूर्वजप्तानि रक्तपुष्पाणि शक्तिमत् ॥३६॥ विद्वषोच्चाटनं सद्यः कुरुते देहिनामयम् । कपिलाक्ष चेटको होवं जप्तः पठितसिद्धिदः ॥३७॥ ॐनमो भगवत्यादौ शिवचक्रे च मालिनि!। स्वाहापदं ततो देयं मन्त्रोऽयं लाभदो मतः ॥३८॥ श्वेतार्कस्य च मूलेन बिम्ब पार्श्वजिनेशितुः । विधाय च प्रतिष्ठाप्य मन्त्रेणानेन पूजयेत् ॥३९॥ यद् यद् विचिन्त्यते कार्य मनुजैरैहलोकिकम् । तत् तत् सम्पद्यते सद्यो मन्त्रस्यास्य प्रभावतः ॥४०॥ राजद्वारे व्यवहारे विवादे धान्य संग्रहे । इत्येवमादिकार्येषु सर्वेष्वेनं विचिन्तयेत् ॥४१॥ इत्याचार्यश्रीभद्रगुप्तविरचितायामनुभवसिद्धमन्त्रद्वात्रिंशिकायां स्तम्भस्तोमादिकमन्त्राष्टकवर्णनो नाम तृतीयोऽधिकारः ॥३॥
व
For Private And Personal Use Only