SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२२ [परि० ३० अनुभवसिद्धमन्त्रद्वात्रिंशिका । ॐ अमृतोद्भवे ! देवि ! वर्षय वर्षयामृतम् । इत्यादिकेन मन्त्रेण वह्निस्तोभो विधीयते ॥१६॥ वंकारमध्यसंस्थानं मायाबीजेनवेष्टितम् । अमुकं देवि ! कुरुकुल्ले ! कुरु स्वाहेति चोच्चरेत् ॥१७॥ दुष्टकुष्टं क्षयं याति क्षीरनीरं पचायते। पुष्पमालायते व्यालः कुन्ताग्रं कुसुमायते ॥१८॥ नीरपूरायते वह्निर्गरलं च सुधायते । माघामासायते ग्रीष्मो रविः शीतकरायते ॥१९॥ नित्यैकद्वित्रिसम्भूतज्वरो याति परिक्षयम् । कम्पस्वेदादिका दोषा गच्छन्ति प्रलयं क्षणात् ॥२०॥ आज्ञामात्रेण च क्षुद्रा वृश्चिकाद्यास्तनूमृतः । दूरे व्रजन्ति विद्याया एतस्याः सुप्रभावतः ॥२१॥ ॐ उच्चिष्ट पिशाचिनी देवी मही स्वाहेति कथ्यते । उच्चिष्ट पिशाचिनी नामविद्या सर्वज्ञभाषिता ॥२२॥ मृन्मयी पुत्रिकां कृत्वा जरत्क्रषरसूपिकाम् । एकान्ते स्थापयेत् तां च पूजयेच्च यथाविधि ॥२३॥ त्रयोदय दिनान्युच्चैः पूजानैवेद्यपूर्वकम् । उच्छिष्टोच्छिष्टवेलायां जपेद् वारांस्त्रयोदश ॥२४॥ विकायैश्च प्रदातव्यं नैवेद्यं प्रतिवासरम् । चतुर्दशेऽह्नि सम्प्राप्ते मध्ये कृष्णघटं क्षिपेत् ॥२५॥ रक्तपुष्पैश्चसम्पूज्य पुत्रिका तां च मृण्मयीम् । यावता तेलपूरेण ब्रुडेत् तावत्प्रमाणकम् ॥२६॥ कृपे सरसि ना वा प्रवाहयेत् ततो घटम् । सिद्धयत्येषा ततो विद्या महासत्वैकशालिनाम् ॥२७॥ यद्येकदापि पुरुषाणां साधयतां स्खलितं भवेत् । षण्मासान्ते ततो विद्यां पुनरेतां प्रजापयेत् ॥२८॥ सिद्धा सती च जन्तूनां ददाति प्रतिवासरम् । द्रम्मान् त्रयोदशैवतान् पुनरन्यस्य नो वदेत् ॥२९॥ परमागमसम्प्रोक्तं विश्वकम्पकचेटकम् । द्रम्माष्टकपदं सद्यः साधयेधैर्यसंयुतः ॥३०॥ For Private And Personal Use Only
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy