SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पाप्रविधिलक्षणं पञ्चमं प्रकरणम् ॥५॥ श्रवणचरणचक्षुःपाणिनासाप्रशस्तं द्वितयकुलविशुद्ध षट्कवर्षप्रमाणम् । सुरभिजलपवित्रं श्वेतसद्वस्त्रयुक्तं कुसुममलयजाद्यैर्भूषि पात्रं प्रशस्तम् ॥ १॥ अतिशयितकुरूपं छिन्नकर्णादिरूपं कुकुलमधमभावं रूक्षकान्तिप्रभावम् । अरुणगुलिकवस्त्रं गात्रदेशाङ्कसंस्थं भवति हि तदपात्रं मण्डले दुष्टपात्रम् ॥ २ ॥ मलयजरसलिप्ते शुद्धपात्रस्य भाले वदनपरिधि युक्त्या 'तत्त्वरेखात्रियुक्ते । चरण युगलकाधो न्यस्यते तस्य यन्त्रं - विमलखटिकयैतत् सद्गुरुद्दिष्टयुक्त्या ॥ ३ ॥ 'त्रिवलितमदनान्तोऽधोमुखेन्दुप्रखण्ड विवरविहिततत्त्वं दिक्षु न्यस्तं तदेव । इति कृतवति पश्चान्नागवल्लीदलान्त लिखितविमलचूर्णाप्रयादिमन्त्रेण युक्तम् ॥ ४ ॥ शुभसुरभितपूगं दीयते तस्य मन्त्रात् तदनु जलशभास्यं मण्डलस्याग्रतःस्थम् । स्तुतिरचितसमूहैर्वर्ण्यते तत्र देवी विहितविशदमुद्रा मन्त्रिणोच्चैर्यथावत् ॥ ५ ॥ जैने पद्मावतीति त्वमशुभदलना त्वं च गौरीति शैवे तारा बौद्धागमे त्वं प्रकृतिरिति मता देवि ! साङ्खयागमे त्वम् । गायत्री भट्टमार्गे त्वमसि च विमले कौलिके त्वं च वजा व्याप्तं विश्वं त्वयेति स्फुरदुरुयशसे मेऽस्तु पझे! नमस्ते ॥६॥ पातालं हुंकृतेन प्रबलबलयुजा देवि ! भित्त्वाशु पीत्वा पीयूषं सप्तसतिप्रभवकरखरं क्ष्मातलं चेत्यमानः । ७० औं क्रॉ मन्त्रमूर्ते ! कुरु झटिति महाक्षुब्धदृप्तारिचक्रे ! सद्यः पात्रं सशोभं चटुलकरशिर:केशपाशप्रचण्डे ॥ ७ ॥ १ तत्त्वं ह्रीकारः । २ मदनः क्लीकारः। For Private And Personal Use Only
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy