SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra [ श्लोकाः ४।६६ देव्यर्चनाक्रमाधिकारः तिष्ठद्वितयं टान्तद्वन्द्वं तु स्थितिकृतौ समारचतु । मम सन्निहिता भव भव वर्षाडिति योज्यं च सन्निधीकरणे पूजादीन् गृहयुगं नम इति पूजाविधानके तद्वत् । स्वस्थानं गच्छयुगं यस्त्रितयं त्वयि विसर्जनके ॥ ५८ ॥ पूरकरेचकयोगेऽमृतमाह्रानं विसर्जनं च तथा । पूजाभिमुखीकरणस्थापनसमये च कुम्भकं योगे ॥ ५९ ॥ मन्त्रो येषां यो यः स्यात् तेषां तेन तेन पूजादि । कर्मास्मिन् मण्डल के क्रमशः कार्य ध्रुवं विधिना ॥ ६० ॥ सञ्जय लक्षमेकं पुष्पैर्जात्यादिभिः सदा ब्रह्म । भूशय्यैककभोज्यः संस्नातो धौतद्वत्रः ॥ ६१ ॥ सदशांशजापकुसुमैर्धृतमधुगुग्गुलसधूपको होमः । मन्त्रोच्चारान् नीचैर्दिकूपत्राम्भोजसमकुण्डे ॥ ६२ ॥ क्षीरद्रुममय सुसमित्प्रवर्द्धितानम्भकलवौ । देयो निर्मलचित्तैर्मन्त्रिभिरत्यन्तकृतरक्षैः ॥ ६३ ॥ सत्येवं श्रीपद्मा प्रत्यक्षीभूय राज्यमतिविपुलम् | नानासिद्धिसमेतं ददाति नियतं क्षणादेव ॥ ६४ ॥ भूतोरगवेतालाः करालकङ्कालकालयोगिन्यः । उरलक सहजाद्यशुभास्त्रसन्ति तद्दृष्टिविक्षेपात् ॥ ६५ ॥ चिन्तितनार्या कृष्टिश्चिन्तितरिपुवर्गमारणोच्चाटम् । चिन्तितशान्तिक- पौष्टिकमिहापि वचनैर्भवेत् तस्य ॥ ६६ ॥ www.kobatirth.org - इति श्वेताम्बरचक्रचूडामणिश्रीयशोभद्रोपाध्यायशिष्य चन्द्रप्रकाशितेऽद्भुतपद्मावतीकल्पे देव्यर्चनाक्रमसयन्त्रलक्षणं चतुर्थम् । Acharya Shri Kailassagarsuri Gyanmandir अनुदिनमतिभक्त्या मण्डलं यः स्वशक्त्या द्विनवकुसुमषट्कैरर्चयेन्मासषट्कः । किमिह बहुभिरुक्तैः सारसीमाविरक्तैः स्मरति यदपि कामं स्यात् करे तत् प्रकामम् ॥ For Private And Personal Use Only ५७ ॥
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy