SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा तिश्च यथाख्यातचारित्रं च सम्यक्त्वाणुसर्वविरतियथाख्यातचारित्राणि तेषां घातः-विनाशः सम्यक्त्वाणुसर्वविरतियथाख्यातचारित्रघातस्तं कुर्वन्तीत्येवंशीलाः सम्यक्त्वाणुसर्वविरतियथाख्यातचारित्रघातकराः । एतदुक्तं भवति-अनन्तानुबन्धिनः कषायाः सम्यक्त्वघातकाः। यदाहुः श्रीभद्रबाहुस्वामिपादाः पंढमिल्लुयाण उदए, नियमा संजोयणाकसायाणं । सम्मइंसणलंभ, भवसिद्धीया वि न लहंति ।। (आ० नि० गा० १०८) अप्रत्याख्यानावरणा देशविरतर्घातकाः, न सम्यक्त्वस्येत्यल्लब्धम् । यदाहुः पूज्यपादाः बीयकसायाणुदये, अप्पच्चक्खाणनामधिज्जाणं ।। सम्मइंसणलंभ, विरयाविरयं न उ लहंति ॥ (आ० नि० गा० १०९) प्रत्याख्यानावरणास्तु सर्वविरतर्घातकाः, सामर्थ्यान्न देशविरतेः । उक्तं च-- तँइयकसायाणुदए, पच्चक्खाणावरणनामधिजाणं । देसिकदेसविरई, चरित्तलंमं न उ लहंति ॥ (आ० नि० गा० ११०) संज्वलनाः पुनर्यथाख्यातचारित्रस्य घातकाः, न सामान्यतः सर्वविरतेः । उक्तं च श्रीम• दाराध्यपादैः मूलगुणाणं लंभ, न लहइ मूलगुणघाइणं उदए । संजलणाणं उदए, न लहइ चरणं अहक्खायं ॥ (आ० नि० गा० १११) इति ॥ १८ ॥ अथ जलरेखादिदृष्टान्तेन किञ्चित्सविशेषं क्रोधादिकषायाणां खरूपं व्याचिख्यासुराह जलरेणुपुढविपव्वयराईसरिसो चउविहो कोहो । तिणिसलयाकट्टट्टियसेलत्थंभोवमो माणो॥ १९॥ इह राजिशब्दः सदृशशब्दश्च प्रत्येकं सम्बध्यते । ततो जलराजिसदृशस्तावत् संज्वलनः क्रोधः, यथा यष्ट्यादिभिर्जलमध्ये राजी-रेखा क्रियमाणा शीघ्रमेव निवर्तते, तथा यः कथमप्युदयप्राप्तोऽपि सत्वरमेव व्यावर्तते स संज्वलनः क्रोधोऽभिधीयते १ । रेणुराजिसदृशः प्रत्याख्यानावरणःक्रोधः, अयं हि संज्वलनक्रोधापेक्षया तीव्रत्वाद्रेणुमध्यविहितरेखावत् चिरेण निवर्तत इति भावः २ । पृथिवीराजिसदृशस्त्वप्रत्याख्यानावरणः, यथा स्फुटितपृथिवीसम्बधिनी राजी कचवरादिभिः पूरिता कष्टेनापनीयते, एवमेषोऽपि प्रत्याख्यानावरणापेक्षया कष्टेन निवर्तत इति भावः ३ । विदलितपर्वतराजिसदृशः पुनरनन्तानुबन्धी क्रोधः, कथमपि निवर्तयितुमशक्य इत्यर्थः ४ । उक्तश्चतुर्विधः क्रोधः ॥ - इदानीं मानोऽभिधीयते-तत्र तिनिसलतोपमः संज्वलनो मानः, यथा तिनिशः-वनस्पति १ प्राथमिकानामुदये नियमात्संयोजनाकषायाणाम् । सम्यग्दर्शनलाभं भवसिद्धिका अपि न लभन्ते ॥ २ द्वितीयकषायाणामुदयेऽप्रत्याख्याननामधेयानाम् । सम्यग्दर्शनलाभं विरताविरतं न तु लभन्ते ॥ ३ तृतीयकषायाणामुदये प्रत्याख्यानावरणनामधेयानाम् । देशैकदेशविरतिं चरित्रलाभं न तु लभन्ते ॥ ४ मूलगुणानां लाभं न लभते मूलगुणघातिनामुदये । संज्वलनानामुदये न लभते चरणं यथाख्यातम् ॥ For Private and Personal Use Only
SR No.020663
Book TitleSatikachatvar Karmgrantha
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1934
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy