SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७-१८] कर्मविपाकनामा प्रथमः कर्मग्रन्थः । ३५ ते चत्वारः क्रोधमानमीकलोभाः । तथा परीषहोपसर्गोपनिपाते सति चारित्रिणमपि 'संशब्द ईषदर्थे' सम्-ईषद् ज्वलयन्ति-दीपयन्तीति संज्वलनाः । यदभ्यधायि-- परीषहोपसर्गोपनिपाते यतिमप्यमी। समीषद् ज्वलयन्त्येव, तेन संज्वलनाः स्मृताः ।। ते चत्वारः क्रोधमानमायालोमाः। तदेवं चत्वारश्चतुष्ककाः षोडश भवन्तीति ॥ १७ ॥ उक्ताः षोडश कषायाः, सम्प्रत्येतेषामेव विशेषतः किश्चित् खरूपं प्रतिपिपादयिषुराह जाजीववरिसचउमासपक्खगा नरयतिरियनरअमरा। सम्माणुसव्वविरईअहखायचरित्तघायकरा ॥१८॥ "जाजीव" ति “यावत्तावजीवितावर्तमानावटप्रावारकदेवकुलैवमेवे वः” (सि०८-१२७१) इति प्राकृतसूत्रेण वकारलोपे यावज्जीवं च वर्ष च चतुर्मासं च पक्षश्च यावज्जीववर्षचतुर्मासपक्षास्तान् गच्छन्तीति यावज्जीववर्षचतुर्मासपक्षगाः । “नाम्नो गमः खड्डौ च विहायसस्तु विहः” (सि० ५-१-१३१) इति डप्रत्ययः । इदमुक्तं भवति-यावज्जीवानुगा अनन्तानुबन्धिनः, वर्षगा अप्रत्याख्यानावरणाः, चतुर्मासगाः प्रत्याख्यानावरणाः, पक्षणाः संज्वलनाः । इदं च फरुसवयणेण दिणतवं, अहिक्खिवंतो य हणइ मासतवं । वरिसतवं सवमाणो, हणइ हणंतो य सामन्नं ॥ (उप० मा० गा० १३४) इत्यादिवद् व्यवहारनयमाश्रित्योच्यते; अन्यथा हि बाहुबलिप्रभृतीनां पक्षादिपरतोऽपि संज्वलनाद्यवस्थितिः श्रूयते, अन्येषां च संयतादीनामाकर्षादिकाले प्रत्याख्यानावरणानामप्रत्याख्यानावरणानामनन्तानुबन्धिनां चान्तर्मुहूर्तादिकं कालमुदयः श्रूयत इति । तथा नरकगतिकारणत्वादनन्तानुबन्धिनः कषाया अपि नरकाः, भवति च कारणे कार्योपचारः, यथा-"आयुघृतम् , नडलोदकं पादरोगः" इति । एवं तिर्यग्गतिकारणत्वात् तिर्यञ्चोऽप्रत्याख्यानावरणाः, नरगतिकारणत्वान्नराः प्रत्याख्यानावरणाः, अमरगतिकारणत्वादमराः संज्वलनाः । एतदुक्तं भवति-अनन्तानुबन्ध्युदये मृतो नरकगतावेव गच्छति, अप्रत्याख्यानावरणोदये मृतस्तिर्यक्षु, प्रत्याख्यानावरणोदये मृतो मनुष्येषु, संज्वलनोदये पुनर्मृतोऽमरेष्वेव गच्छति । उक्तश्चायमर्थः पश्चानुपूर्व्याऽन्यत्रापि पैक्खचउमासवच्छरजावज्जीवाणुगामिणो भणिया । देवनरतिरियनारयगइसाहणहेयवो नेया ॥ (विशे० गा० २९९२) इदमपि व्यवहारनयमधिकृत्योच्यते; अन्यथा हि अनन्तानुबन्ध्युदयवतामपि मिथ्याशा केषाश्चिदुपरितनौवेयकेषुत्पत्तिः श्रूयते, प्रत्याख्यानावरणोदयवतां देशविरतानां देवगतिः, अप्रत्याख्यानावरणोदयवतां च सम्यग्दृष्टिदेवानां मनुष्यगतिः । तथा “सम्म" ति सम्यक्त्वं च "अणुसबविरइ"त्ति विरतिशब्दस्य प्रत्येकं सम्बन्धाद् अणुविरतिश्च-देशविरतिः सर्वविर १ परुषवचनेन दिनतपोऽविक्षिपश्चै हन्ति मासतपः । वर्षतपः शपमानः हन्ति नंश्च श्रामण्यम् ॥ २ पक्षचतुर्मासवत्सरयावज्जीवानुगामिनो भणिताः । देवनरतिर्यमारकगतिसाधनहेतवो ज्ञेयाः॥ For Private and Personal Use Only
SR No.020663
Book TitleSatikachatvar Karmgrantha
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1934
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy