SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१ सप्तस्मरणस्तव. व्याख्या-पोडश विद्यादेव्यः संघस्य विपुलं विस्तीर्ण मंगलं ददतु । किंविशिष्टाः षोडश देव्यः ? अच्छुतासहिता। अच्छुप्ता नाम देवी तया सहिताः । पुनः कया समं ? विश्रुतश्रुतदेवतया समं, विश्रुता श्रुतदेवता तया सह । षोडश देव्यस्तु इमाः-रोहिणी १ प्रज्ञप्ती २ वज्रशृंखला ३ कुलिशांकुशा ४ चक्रेश्वरी ५ नरदत्ता ६ काली ७ महाकाली ८ गौरी ९ गांधारी १० सर्वास्त्रमहाज्वाला ११ मानवी १२ वैरोट्या १३ अच्छुप्ता १४ मानसी १५ महामानसी १६ चेति । ननु ‘जक्खा चउवीस सासणसुरावि' इत्यादिगाथायां यक्षयक्षिणीनां स्वयमेव प्रतिपादनस्य वक्ष्यमाणत्वात् पुनः गोमुख १ मातंगां २ ऽया ३ सिद्धायिका ४ चक्रेश्वरीणां ५, पुनः वैरोठ्या ६ ऽच्छुप्ता-७ देव्योश्च पूर्व भणितत्वात् पुनः पार्थक्येन एतासां सप्तानां कथं भणनं पुनरुक्तदोषप्रसंगत्वात् ?। उच्यते-स्वपरेषु सांनिध्यविधानस्य आधिक्यात् , सर्वत्र बहुप्रसिद्धन्यात् बहुमानार्हत्वात् स्तुतियोग्यत्वाद्वा पुनर्भणने न दोषः ॥१३॥ जिणसासणकयरक्खा, जक्खा चउवीस सासणसुरा वि। सुहभावा संतावं, तित्थस्स सया पणासंतु ॥१४॥ व्याख्या-चतुर्विंशतिर्यक्षा यक्षिण्यश्च अपि-पुनः चतुर्विंशतिः शासनसुराः-शासनदेवता यक्षिण्य इत्यर्थः, तीर्थस्य-चतुवर्णसंघस्य संतापं प्रणाशयन्तु। किंविशिष्टा यक्षाः यक्षिण्यश्च ? । 'जिणसासणकयरक्खा' जिनशासने 'तास्थ्याचदव्यपदेशः' इति जिनशासनस्थे जने कृता रक्षा महोपसर्गनिवारणरूपा यैर्याभिश्च ते ता जिनशासनकृतरक्षाः । पुनः किविशिष्टास्ते ताश्च ? 'सुहभाबा' शुभो भावो येषां यासां च ते ताश्च शुभभावाः । चतुविंशतियक्षा एते-गोमुख १ महायक्ष २ त्रिमुख ३ यक्षनायक ४ तुंबुरु ५ कुसुम ६ मातंग ७ विजया८ऽजित ९ ब्रह्म १० यक्षेन्द्र ११ कुमार १२ षण्मुख १३ पाताल १४ किन्नर १५ गरुड १६ गन्धर्व १७ यक्षेन्द्र १८ कुबेर १९ वरुण २० भृकुटि २१ गोमेध २२ पार्श्व २३ मातंग २४ नामानः । एते यक्षा ऋषभादि २४ तीर्थकराणां उपासकाः॥ यक्षिण्योऽपि २४ एतास्तथाहि-चक्रेश्वरी १-अजितबलार दुरितारि ३ कालिका ४ महाकाली ५ श्यामा ६ शान्ता ७ भृकुटी ८ सुतारिका ९ अशोका १० मानवी ११ चंडा १२ विदिता १३ अंकुशा १४ कंदर्पा १५ निर्वाणी १६ बला १७ धारिणी १८ धरणप्रिया १९ नरदत्ता २० गान्धारी २१ अम्बिका २२ पद्मावती २३ सिद्धायिका २४ नाम्न्यः । एता यक्षिण्यः ऋषभादि २४ तीर्थकराणामनुक्रमेण उपासनाकारिण्यः ॥१४॥ पुनराह जिणपवयणम्मि निरया, विरया कुपहाओ सव्वहा सव्वे । वेयावञ्चकरा वि य, तित्थस्स हवंतु संतिकरा ॥१५॥ व्याख्या-वैयावृत्यकरा अपि पूर्वोक्तव्यतिरिक्ता देवा अपि सर्वेऽपि तीर्थस्य शान्तिकरा भवन्तु । किविशिष्टा वैयावृत्यकराः ? 'जिणपवयणमि निरया' । जिनप्रवचने निरता अनुरागभाजः । पुनः किंविशिष्टा वैयावृत्यकराः ? कुपथात् महिषादिवधरूपमिथ्यात्वमार्गात् निन्धमार्गात् सर्वथा विरताः ॥१५॥ पुनराह जिणसमयसिद्धसम्मग्गविहिअभव्याण जणिअसाहजो। गीयरहगीयजसो, सप्परिवारो सिवं विसउ ॥१६॥ For Private And Personal Use Only
SR No.020658
Book TitleSaptasmaran Stava
Original Sutra AuthorN/A
AuthorSamaysundar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages59
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy