SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आचार्य श्री भ्रातृचंद्रसूर ग्रन्थमाळा पुस्तक ५० मुं. ११९ निजीविष्णां च, तथा 'सर्वेषां सत्त्वानां' तिर्यङ्जरामराणां संसारे क्लिश्यमानतया करुणास्पदानां, एकार्थिकानि वैतानि प्राणादीनि वचनानि इत्यतस्तेषां क्षान्त्यादिकं दश विधं धम्मै यथायोगं प्रागुपन्यस्तं शान्त्यादिपदाभिहितम् 'अनुविचिन्त्य' स्वपरोपकाराय भिक्षणशीलो भिक्षुर्धर्मकथा. लब्धिमान 'आचक्षीत' प्रतिपादयेदिति ! यथा च धर्म कथयेत्तथाऽऽह-स भिक्षुर्मुमुक्षुरनुविचिन्त्य-पूर्वापरेण धर्म पुरुषं वाऽऽलोच्य यो यस्य कथनयोग्यस्तं धर्ममाचक्षाणः आङिति मर्यादया यथाऽनुष्ठानं सम्यग्दर्शनादेः शातना आ शातना तया आत्मानं नो आशातयेत् , तथा धर्ममाचक्षीत यथाऽऽत्मन आशातना न भवेत् , यदिवाऽऽस्मन आशातना विधा द्रव्यतो भावतश्च, द्रव्यतो यथाऽऽहारोपकरणादेव्यस्य कालातिपातादिकृताऽऽशातना-बाधा न भवति तथा कथयेद, आहारादिद्रव्यबाधया च शरीरस्यापि पीडा भावाशातनारूपा स्यात् , कथयतो वा यथा गात्रभङ्गरूपा भावाशातना न स्यात् तथा कथयेदिति, तथा नो परं शुश्रूषू आशातयेद्होलयेद्, यत: परो हीलनया कुपितः सन्नाहारोपकरणशरीरा न्यतरपीडायै प्रवर्तेते ति, अतस्तदाशातनां वर्जयन धर्म ब्रूयादिति, तथाऽन्यान वा सामान्येन प्राणिनो भूतान जीवान् सत्यान्नो आशातयेद-बाधयेत् , तदेवं स मुनिः स्वतोऽनाशातकः परैरनाशातयन् तथाऽपरानाशातयतोऽननुमन्यमानोऽपरेषां वध्यमानानां प्राणिनां भूतानां जीवानां सत्यानां यथा पोडा नोत्पद्यते तथा धम्मै कथयेदिति, तद्यथायदि लौकिककुप्रावनिकपार्श्वस्थादिदानानि प्रशंसति अबटतटागादीनि वा ततः पृथिवीकायादयो व्यापादिता भवेयुः, अथ दूषयति ततोऽपरेषां अन्तरायापादनेन तस्कृतो बन्धविपाकानुभवः स्यात् , उक्तं च-"जे उ दाणं पसंसंति, For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy