SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरशैवशष्टाद्वैताख्यं भक्त रामानुजेवणा । 1121 भेदाभेदमतं प्राह, मध्वो द्वैतमतं तथा ।।11।। द्वैताद्वैतं च निम्बार्कः शुद्धादैतं तु वल्लभः । अविभागाद्वैतमतं प्रोक्तं विज्ञानभिक्षुणा ।।12।। तद् विशिष्टाद्वैतमतं प्रोक्तं रामानुजेन च। शैवं विशिष्टाद्वैताख्यं श्रीकण्ठः, श्रीपतिः पुनः । वीरशैवमृतं प्राह ब्रह्मसूत्रविमर्शतः ।।13।। श्रीगौडपादरचिताः ख्याता माण्डूक्यकारिकाः । ब्रह्मसूत्रस्य गीतायाः दशोपनिषदां तथा। माण्डूक्यकारिकाणां च चक्रे भाष्याणि शंकरः ।।14।। सहस्रनामव्याख्यानं सुजातीयं च विश्रुतम्। तथोपदेशसाहस्री ख्याता शंकरनिर्मिता ।।15।। कृता मण्डनमिश्रेण ब्रह्मसिद्धिः सुविश्रु। स्फोटसिद्धिरपि ख्याता तनैव च विनिर्मिता ।।16।। ब्रह्मतत्त्वसमीक्षा च वाचस्पतिविनिर्मिता। रचिता चित्सुखेनाऽपि ह्यभिप्रायप्रकाशिका ।।17।। भावशुद्धिरपि श्रेया विद्यासागरभाषिता। ब्रह्मसिद्धेरिमा व्याख्याः विज्ञेयाः सर्वविश्रुताः । शंखपाणिकृता टीका ब्रह्मसिद्धेः सुविश्रुता ।।१८।। ख्यातो वार्तिककारोऽसावाचार्यः श्रीसुरेश्वरः । चकार दक्षिणामूर्तिस्तोत्रवार्तिकमेव च ।।19।। सभाष्यं तैत्तिरीयं च बृहदारण्यकं तथा। नैष्कर्म्यसिद्धिरुक्तं च पंचीकरणवार्तिकम् ।।20।। प्रपंचसारटीका च विज्ञानामृतदीपिका। प्रपंचपादिका-टीका या प्रस्थानमिति श्रुता।। प्रकाशात्मयतिप्रोक्ता गुर्वी विवरणाभिधा ।।21 ।। विवरणभाष्यमखण्डानन्दकृतं तत्त्वदीपनं नाम । विद्यारण्यविरचितो विवरण (प्रपंच)संग्रह इति श्रुतो लोके ।।22 ।। सर्वज्ञात्मा स संक्षेपशारीरकमथोऽकरोत् । नृसिंहाश्रम ऊचेऽसौ तट्टीका तत्त्वबोधिनीम् ।।23।। सारसंग्रहटीकायाः कर्ताऽसौ मधुसूदनः । वाचस्पतिप्रणीताऽसौ भाष्यटीका हि भामती।। ब्रह्मतत्त्वसमीक्षाापि वाचस्पतिविनिर्मिता ।।24।। प्रथितं हर्षविरचितं यत् खण्डनखण्डखाद्यमिह लोके। शंकरमिश्रविरचिता तट्टीका चाऽपि विबुधगणमान्या ।।25।। ब्रह्मविद्याभरणमित्यद्वैतानन्दभाषितम्। स न्यायमकरन्दश्चानन्दबोधेन निर्मितः ।।26 ।। चित्सुखी चित्सुखाचार्यरचिता तत्त्वदीपिका। शारीरके च तट्टीका ख्याता भावप्रकाशिका ।। ब्रह्मसिद्धेस्तथा टीका साऽभिप्रायप्रकाशिका ।।27।। भामतीभाष्य-टीका या ह्यमलानन्दनिर्मिता। ख्याता कल्पतरु म तत्कृतः शास्त्रदर्पणः ।।28 ।। श्रीमबृहदारण्यकवार्तिक मथ सा तथैव पंचदशी। जीवन्मुक्तिविवेकस्तथाऽनुभूतिप्रकाश्च ।।29 ।। ख्यातस्तथा विवरणप्रमेयसंग्रह इति श्रुतो ग्रन्थः । विद्यारण्यविरचिता ग्रन्था एते सुविख्याताः ।।30 ।। गीतासु शंकरानन्दी शंकरानन्दभाषिता। वैयासिकन्यायमाला भारतीतीर्थनिर्मिता ।।31 ।। स न्यायनिर्णयो भाष्ये आनन्दगिरिणा कृतः। तदखण्डानन्दकृतंप्रथितं तत्त्वदीपनम् ।।32।। सेयं वेदान्तसिद्धान्तमुक्तावल्यतिविश्रुता। प्रकाशानन्दयतिना तत्त्वज्ञेन विनिर्मिता ।।33 ।। वेदान्तकल्पलतिकाऽद्वयसिद्धिस्तथैव च। सिद्धान्तबिन्दुः सा गीताटीका च मधुसूदनी।। इत्येतान् विश्रुतान् ग्रन्थान् कृतवान् मधुसूदनः ।।34 ।। अद्वैतसिद्धेाख्या सा ब्रह्मानन्दविनिर्मिता । अद्वैतचन्द्रिका गौडब्रह्माननन्दीति विश्रुता ।।35 ।। स हि वेदान्तविवेको विवरणटीका च भेदधिक्कारः । ग्रन्थाश्च नृसिंहाश्रमरचिता अद्वैतदीपिकाऽपि तथा ।।36।। सिद्धान्तलेशसंग्रहकर्ता ह्यप्पय्यदीक्षितो येन। कल्पतरुपरिमलोऽपि च शिवार्कमणिदीपिका प्रोक्ता ।।37 ।। तत्त्वचिन्तामणेष्टीका दशटीकाविभंजनी। वेदान्तपरिभाषा च धर्मराजाध्वरीन्द्रतः ।।38 ।। रामकृष्णेन रचितः स वेदान्तशिखामणिः । वेदान्तसार सम्प्रेक्तः शिवानन्देन धीमता ।।39 ।। रत्नप्रभाभाष्यटीका गोविन्दानन्दनिर्मिता। सिद्धान्तबिन्दु ग्रन्थस्य टीकाद्वयमिदंप्रथा ।।40 ।। श्रीनारायण-तीर्थस्य लघुव्याख्या तथा पुनः । ब्रह्मानन्दकृता न्यायरत्नावलिरिति श्रुता ।। अद्वैतब्रह्मसिद्धिश्च सदानन्दयतेः कृतिः ।।41 ।। पांचरात्रदर्शनम् अहिर्बुध्न्येश्वरादित्य-विष्णु-वासिष्ठ-काश्यपाः । जपाख्या वासुदेव-श्रीप्रश्न-सात्वतसंहिता ।।1।। विश्वामित्र-पराशर-कपिजलमहासनत्कुमाराख्याः । विष्णुरहस्य लक्ष्मीतन्त्र तद् विष्णुतिलकमपि विदितम् ।।2।। विष्णरहस्याख्या सा लक्ष्मीतन्त्राऽभिधा तथा चान्या। सा पाद्मतंत्रसंज्ञा ह्यपराऽपि च नारदीयसंज्ञाऽसौ। इत्यादिका संहिता सुप्रथिताःखलु पांचरात्रतत्त्वविदे ।।3।। जैनदर्शनम् उमास्वामी स तत्त्वार्थसूत्रकर्ता सुविश्रुतः । देवार्थसिद्धिस्तट्टीका रचिता देवनन्दिना ।।1।। पंचास्तिकायसारः प्रवचनसारश्च समयसारोऽपि । सेयं हि कुन्दकुन्दाचार्यकृता नाटकत्रयीख्याता ।।2।। कुन्दकुन्दाचार्यकृता विख्याता नाटकत्रयी। तथा नियमसारोऽपि कुन्दकुन्देन निर्मितः ।।3।। कृता समन्तभद्रेणाप्तमीमांसा तथा पुनः । स्वयंभूस्तोत्रमन्यच्च जिनस्तुतिशतं श्रुतम् ।।4।। युत्तयनुशासनं तद् रत्नकरण्डमपि विश्रुतम्। संस्कृत वाङ्मय कोश - ग्रंथ खण्ड / 525 For Private and Personal Use Only
SR No.020650
Book TitleSanskrit Vangamay Kosh Part 02
Original Sutra AuthorN/A
AuthorShreedhar Bhaskar Varneakr
PublisherBharatiya Bhasha Parishad
Publication Year1988
Total Pages638
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy