SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहट्टीका मध्यटीका कुमाररिलकृता श्रुता ।।6।। भट्टकुमारिलशिष्यैः मण्डनमिश्रः कृताइमे ग्रन्थाः । आद्यःस विधिविवेको ह्यपरोऽसौ भावनाविवेकश्च ।। मीमांसानुक्रमणी तथैव विभ्रमविवेकोऽपि ।।7।। तत्त्वबिन्दुरिति ग्रन्थः सा न्यायकणिकाऽमिधा। टीका विधिविवेकस्य वाचस्पतिविनिर्मिता ।।8।। सा भावनाविवेकस्य टीका ह्युम्बेकनिर्मिता। तात्पर्यटीका च श्लोकवार्तिकोदबोधनक्षमा ।।9।। (तात्पर्यटीका चाऽपूर्णा जयमिश्रेण पूरिता।) पार्थसारथिमिश्रेण रचिता शास्त्रदीपिका । टुप्टीकायां तर्करत्नं, श्लोकवार्तिकपुस्तके ।।10।। न्यायरत्नाकरो न्यायरत्नमाला तथैव च। टीका नायकरत्नाख्या रामानुजविनिर्मिता ।।11।। रामकृष्णकृता टीका युक्तिस्नेहप्रपूरणी। मयूखमालिका चान्या सोमनाथविनिर्मिता ।। आभ्यां प्रकाशिता पार्थसारथेः शास्त्रदीपिका ।।12।। कृता सुचरितेनैव काशिका श्लोकवार्तिके। सा तन्त्रवार्तिके न्यायसुधा सोमेश्वरेण च ।।13।। ख्याता सेश्वरमीमांसा माधवाचार्यनिर्मिता। न्यायमालाविस्तरश्च माधवाचार्यनिर्मितः ।। मीमांसापादुकाटीका कृता वेदान्तदेशिकैः ।।14।। भाट्टमते नव्यमतप्रवर्तकःखण्डदेवमिश्रोऽसौ। यो भाट्टकौस्तुभाख्यां टीकां विदधे हि सूत्राणाम् ।।15।। भादृचिन्तामणिर्भाट्टचन्द्रिका च प्रभावलिः । इति टीकात्रययुता विज्ञेया भाट्टदीपिका ।।16।। एका वांछेश्वरेणोक्ता द्वितीया भास्करेण च । तृतीया शम्भुभट्टेन व्याख्याता भाट्टदीपिका ।।17।। गागाभट्टसहायेन खण्डदेवेन धीमता कृतं भाट्टरहस्याख्यं सूत्रभाष्यं सुविश्रुतम् ।।18।। अप्पय्य-दीक्षितैष्टीतिकायुतं विधिरसायनम्। चित्रकूटं तथा वादनक्षत्रावालिरुत्तमा ।। तथैव ग्रथितो ग्रन्थ उपक्रमपराक्रमः ।।19।। सा मीमांसान्यायप्रकाशसंज्ञाऽऽपदेवसंग्रथिता। आपोदेवी प्रथिता भाट्टालंकारटीकया सहिता ।। भाट्टालंकाराख्या टीका रचिता ह्यनन्तदेवेन ।।20।। मानमेयोदयो भट्टनारायणकृतस्तथा। लौगाक्षिभास्करप्रोक्तो विख्यातो ह्यर्थसंग्रहः ।।21 ।। तैनैव विधिरसायनदूषणमपि भट्टशंकरेणोक्तम्। यो मीमांसाबालप्रकाशसंज्ञं चकार सद्ग्रन्थम् ।।22 || तन्त्रवार्तिकटीका सा सुविख्याता सुबोधिनी। राणकोज्जीविनी न्यायसुधाटीका तथैव च। अन्नंभट्टेन रचितं टीकाद्वयमिदं श्रुतम् ।।23।। मीमांसा-परिभाषा सा रचिता कृष्णयज्वना । रामेश्वरेण व्याख्याता याऽसौ द्वादशलक्षणी। सुबोधिनीति सा ख्याता टीका ह्यन्वर्थसंज्ञका ।।24।। कुमारिलान्तेवासी च गुरुमार्गप्रवर्तकः । स प्रभाकरमिश्रो हि मीमांसादर्शने श्रुतः ।।25 ।। कृतं शाबरभाष्यस्य तेन टीकाद्वयं महत्। निबन्धनाख्या बृहती, लघ्वी विवरणाऽभिघा ।।26 ।। रचितं शालिकनाथाचार्यैस्तत् पंचिकात्रयं प्रथितम्। ऋजुविमला-दीपशिखा- प्रकरणमिति यत् सुविख्यातम्।। (दीपशिखा हि विवरणे ऋजुविमला सा निबन्धने टीका) ।।27।। ख्यातो नयविवेकोऽसौ भवनाथप्रवर्तितः। आनन्दबोधरचिता शाब्दनिर्णयदीपिका ।।28 ।। भाष्यं नयविवेकस्य रन्तिदेवेन धीमता। विवेकतत्त्वं सम्प्रोक्तं पंजिका शंकरेण च ।।29 ।। कृता वरदराजेन तट्टीका दीपिकाऽभिधा । अलंकाराभिधा टीका कृता दामोदरेण च ।।30।। नन्दीश्वरः प्रभाकरविजयाख्यं रचितवान् महाग्रन्थम् । रामानुज आचार्यस्तन्त्ररहस्यं च सर्वजनमान्यम् ।।31 ।। कृतं मुरारिमिश्रेण त्रिपादीनयनं यथा । तद्वदेकादशाध्यायीकरणं च सुविश्रुतम् ।।32 ।। वेदान्तदर्शनम् काष्णाजिनिः काशकृत्स्राऽऽत्रेयौ जैमिनिबादरी। आश्मरथ्यश्चौडुलोमिः वेदान्तज्ञाः सनातनाः ।।1।। भर्तृप्रपंचोपवर्षों भर्तृमित्रश्च भारुचिः। बोधायनो भर्तृहरिः द्रविडाचार्य एव च ।।2।। टंकः सुन्दरपाण्डयश्च ब्रह्मनन्दी च काश्यपः । ब्रह्मदत्त इति ज्ञेयाः वेदान्तज्ञाः पुरातनाः ।।3।। कष्णद्वैपायनो व्यासः बादरायणसंज्ञकः।। ब्रह्मसूत्रमिति ख्यातं भिक्षुसूत्रं चकार सः ।।4।। भाष्याणि ब्रह्मसूत्राणां विख्यातानि दशैव हि। शारीरकं शंकरस्य, भास्कर भास्करस्य च ।।5।। रामानुजस्य श्रीभाष्यं, श्रीपतेः श्रीकर तथा। वल्लभस्याणुभाष्यं च शैवं श्रीकण्ठभाषितम् ।।6।। वेदान्तपारिजाताख्यं निंबार्कग्रथितं तथा अनन्ततीर्थरचित पूर्णप्रज्ञमिति श्रुतम् ।।7।। विज्ञानभिक्षोर्विज्ञानामृतभाष्यमिति श्रुतम्। गोविन्दं बलदेवस्य दशभाष्याण्यमूनि च ।।8।। ब्रह्मसूत्र-भाष्यकाराः शंकर-भास्कर-वल्लभःराजानुज-मध्व-बलदेवाः। निम्बार्क-श्रीकण्ठ-श्रीपति-विज्ञानभिक्षवो दश ते ।।9।। ब्रह्मसूत्रभाष्याणिः श्री-शारीरक-भास्कर-पूर्णप्रज्ञाऽणु-शैव-गोविद-श्रीकर-विज्ञानामृतसहितं वेदान्तपारिजातं च ।।10।। भाष्योक्तनि वेदान्तमतानिः निर्विशेषाद्वैतमतं शंकरो, भास्करः पुनः । 524 / संस्कृत वाङ्मय कोश - ग्रंथ खण्ड For Private and Personal Use Only
SR No.020650
Book TitleSanskrit Vangamay Kosh Part 02
Original Sutra AuthorN/A
AuthorShreedhar Bhaskar Varneakr
PublisherBharatiya Bhasha Parishad
Publication Year1988
Total Pages638
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy