SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यदर्शनम् । तद्भावे तदयोगादुभयव्यभिचारादपि न ॥४०॥ यतः पूर्वस्य भावकाल उत्तरस्यासम्बन्धोऽत उभयव्यभिचारादन्वयव्यतिरेकव्यभिचारादपि न कार्यकारणभाव इत्यर्थः । तथाहि यदोपादेयोत्पत्तिस्तदोपादानं यदा चोपादानामावस्तदोपादेयोत्पत्त्यभाव इत्यन्वयव्यतिरेकेणैवोपादानोपादेययोः कार्यकारणभावग्रहो भवति। तत्र क्षणिकत्वेन क्रमिकयोस्तयोविरुद्धकालतयान्वयव्यतिरेकव्यभिचाराभ्यां न कार्यकारणभावसिद्धिरिति ॥ ४० ॥ ननु निमित्तकारणस्येवोपादानकारणस्यापि पूर्वभावमात्रेणैव कारणतास्तु तबाह । पूर्वभावमात्रे न नियमः ॥ ४१ ॥ पूर्वभावमात्राभ्युपगमे चेदमेवोपादानमिति नियमो न स्यानिमित्तकारणानामपि पूर्वभावाविशेषात्। उपादाननिमित्तयोविभागः सर्वलोकसिद्ध इत्यर्थः ॥ ४१ ॥ अपरे तु नास्ति का आहुः। विज्ञानातिरिक्तवस्त्वभावेन बन्धोऽपि विज्ञानमात्रं स्वप्नपदार्थवत्। अतोऽत्यन्त मिथ्यात्वेन न तत्र कारणमस्तीति । तन्मतमपाकरोति। न विज्ञानमात्र बाह्यप्रतीतेः ॥४२॥ न विज्ञानमात्र तत्त्व बाह्यार्थानामपि विज्ञानवत् प्रती. तिसिदत्वादित्यर्थः ॥ ४२ ॥ __ ननु लाघवतर्केण स्वादिदृष्टान्तै श्यत्वहेतुकमिथ्यात्वानुमानेन बाह्यवस्वनुभवी बाधनोयोऽत्र भवतां श्रुतिस्मती अपि स्तश्चिद्धौदं सर्वं तस्मादिज्ञानमेवास्ति न प्रपञ्चो न सतिरित्यादी इत्यतो दूषणान्तरमाह। For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy