SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमोऽध्यायः। वाई स्मुशामौत्यादिप्रत्यभिनया स्थैर्यसिहे: क्षणिकत्वस्य बाधात्। प्रतिपक्षानुमानेनेत्यर्थः । तद्यथा बन्धादि स्थिर सत्त्वाइटादिवदिति । असमत एवानुकूलतर्कसत्वेन न सत्प्रतिपक्षता। प्रदौपादौ च सूक्ष्मानेकक्षणानाकलनेन क्षणिकत्वम एव परषामिति ॥ ३५ ॥ श्रुतिन्यायविरोधाच्च ॥३६॥ सदेव सौम्येदमग्र आसीत् तम एवेदमग्र आसौदित्यादिश्रुतिभिः कथमसतः सज्जायतेत्यादिौतादियुक्तिभिश्च कार्यकारणात्मकाखिलप्रपञ्चे क्षणिकत्वानुमानस्य विरोधान्न क्षणिकत्वं कस्यापौत्यर्थः ॥ ३६॥ दृष्टान्तासिद्धेश्च ॥३७॥ प्रदीपशिखादिदृष्टान्ते क्षणिकवासिडेश्च न क्षणिकत्वानुमानमित्यर्थः ॥ ३७॥ किञ्च क्षणिकतावादिनां मृवटादिस्थ सेऽपि कार्यकारणभावः प्रवृत्तिनिवृत्त्यन्यथानुपपत्तिसिद्धो नोपपद्यतेत्याह। युगपज्जायमानयोन कार्यकारणभावः ॥ ३८॥ किं युगपज्जायमानयोः कार्यकारणभाव: किं वा क्रमिकयोः। तत्र माद्यो विनिगमकाभावादिभ्य इति भावः ॥३८॥ नात्य इत्याह। पूर्वापाये उत्तरायोगात् ॥ ३९ ॥ पूर्वस्य कारणस्यापायकाल उत्तरस्य कार्यस्योत्पत्त्यनौचित्यादपि न क्षणिकवादे सम्भवति कार्यकारणभावः । उपादानकारणानुगततयैव कार्यानुभवादित्यर्थः ॥ ३८ ॥ उपादानकारणमधिकृत्य व दूषणान्तरमाह। For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy