SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra प्रथमोऽध्यायः । २७ तन्मते परिच्छिन्रो देहान्तस्थ एवात्मा तस्याभ्यन्तरस्य न बाह्यविषयेण सहोपरज्ञ्जयो परज्ञ्जकभावोऽपि सम्भवति । कुतः । सुप्रस्थपाटलिपुत्रस्थयोरिव देशव्यवधानादित्यर्थः । संयोगे सत्येव हि वासनाख्य उपरागो दृष्टः । यथा मञ्जिष्ठावस्त्रयोः यथा वा पुष्पस्फटिकयोरिति । अभिशब्देन खमतेऽपि संयोगाभावादिः समुच्चयते । सुनपाटलिपुत्रौ विप्रकृष्टौ देशविशेषौ ॥ २८ ॥ ननु भवतामिन्द्रियाणामिवास्माकमात्मनो विषयदेशे गमनाद्विषयसंयोगेन विषयोपरागो वक्तव्यस्तत्राह । www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वयोरेकदेशलब्धोपरागान्न व्यवस्था ||२६|| दयोर्बद्धमुक्तात्मनोरेकस्मिन् विषयदेशे लब्धविषयोपरागान बन्धमोच व्यवस्था स्यात् । मुक्तस्यापि बन्धापत्तेरित्यर्थः ॥ २८ ॥ यत्र शङ्कते । अदृष्टवशाच्चेत् ॥ ३० ॥ नन्वेकदेश सम्बन्धेन विषयसंयोग साम्येऽप्य दृष्टवशादेवीपरागलाभ इति चेदित्यर्थः ॥ ३० ॥ परिहरति । न हयोरेककालायोगादुपकार्य्योपकारक भावः ॥ ३१ ॥ क्षणिकत्वाभ्युपगमाद्दयोः कर्त्तृभोक्कोरेककालासत्त्वेन नोपकार्य्योपकारकभावः । न कर्तृनिष्ठादृष्टेन भोक्तृनिष्ठो विषयोपरागः सम्भवतीत्यर्थः ॥ ३१ ॥ शङ्कते । For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy