SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६ सांख्यदर्शनम् । थाणां न सम्भवति। अन्यथा बालकायुक्तस्याप्ययौक्तिकस्य संग्रहः स्यादित्यर्थः। शुत्यादिकं चास्मिन्नर्थे स्फट नास्ति युक्तिविरोधेन च सन्दिग्धश्रुतेरन्तरसिद्धिरिति भावः । नासटूपा न सद्रूपा माया नैवोभयात्मिका। सदसद्भ्यामनिर्वाच्या मिथ्याभूता सनातनी ॥ इत्यादिसौरादिवाक्यानां त्वयमर्थः । विकारजननी मायामष्टरूपामजां ध्रुवाम् ॥ इत्यादिश्रुतिसिद्धा मायाख्या प्रकृति: परमार्थसतो न भवति पूर्वपूर्वविकाररूपैः प्रतिक्षणमपायात्। नापि परमार्थासती भवत्यर्थक्रियाकारित्वेन शशशृङ्गविलक्षणत्वात्। नापि तदु. भयात्मिका विरोधात। अतः सदसद्भ्यामनिर्वाच्या सत्ये वेत्य सत्येवेति च निर्धार्योपदेष्टुमशक्या। किन्तु मिथ्याभूता लयाख्यव्यावहारिकासत्ववती परिणामिनित्यतारूपव्यावहारिकसत्त्ववती चेति। एतच्चाग्रे प्रपञ्चयिष्याम इति दिक् । एतत्प्रकरणोपन्यस्तानि च सर्वाण्ये व दूषणान्याधुनिकेऽपि मायावादे योजनीयानि ॥ २६ ॥ अपरै नास्तिका याहुः क्षणिका बाह्यविषयाः सन्ति तेषां वामनया जीवस्य बन्ध इति तदपि दूषयति । नानादिविषयोपरागनिमित्तकोऽप्यस्य ॥२७॥ अस्यात्मनः प्रवाहरूपेणानादिर्या विषयवासना तबिमित्तकोऽपि बन्धो न सम्भवतीत्यर्थः । निमित्ततोऽप्यस्येति पाठस्तु समोचौनः ॥ २७॥ अत्र हेतुमाह। न बाह्याभ्यन्तरयोरुपरजोपरञ्जकभावोऽपि देशव्यवधानात् स्वघ्नस्थपाटलिपुत्रस्थयोरिव ॥२८॥ For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy