SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७२ सांख्यदर्शनम् । दृष्टस्तयोरिन्द्रस्य ॥ १८ ॥ तच्छब्देनोक्तोच्यमानयोः परामर्थः । तयोरिन्द्रविरोचनयो मध्ये परामर्श इन्द्रस्य दृष्टश्चेत्यर्थः ॥ १८ ॥ सम्यग्ज्ञानार्थिना च गुरुसेवा बहुकालं कर्त्तव्येत्याह । प्रणतिब्रह्मचर्य्योपसर्पणानि कृत्वा सिद्धि र्बहुकालात् तद्दत् ॥ १८ ॥ तदिन्द्रस्य वान्यस्यापि गुरौ प्रणति वेदाध्ययनसेवादीन् क्त्वैव सिद्धिस्तत्त्वार्थस्फूर्त्तिर्भवति नान्यथेत्यर्थः । तथा च श्रुतिः । यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । 'तस्यैते कथितार्थाः प्रकाशन्ते महात्मनः इति ॥ १८ ॥ न कालनियमो वामदेववत् ॥ २० ॥ ऐहिकसाधनादेव भवतौत्यादिर्ज्ञानोदये कालनियमो नास्ति वामदेववत् । वामदेवस्य जन्मान्तरीयसाधनेभ्यो गर्भेsपि यथा ज्ञानोदय स्तथान्यस्यापीत्यर्थः । तथा च श्रुतिः । तद्वैतत् पश्यन्नृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्य्यश्चेति तदिदमप्येत य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवतीत्यादिरिति । श्रहं मनुरभवमित्यादिकमवैधर्म्यलचणाभेदपरं सर्वव्यापकताख्यब्रह्मतापरं वा । सर्वं समाप्नोषि ततोऽसि सर्व इत्यादिस्मरणात् । स इदं सर्वं भवतीति त्वौपाधिक परिच्छेदस्यात्यन्तोच्छेदपरमिति ॥ २० ॥ ननु सगुणोपासनाया अपि ज्ञानहेतुत्वश्रवणात् तत एव ज्ञानं भविष्यति किमर्थं दुष्करस्सूक्ष्मयोगचर्येति तत्राह । For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy