SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थोऽध्यायः। इति मोक्षधर्मादिभ्यः । इति वसिष्ठादिस्मृतिभ्यश्च । चत एव विष्णु पुराणादौ वृथा कर्मत्यागिन एव पाषण्डतया निन्दिताः पुंसां जटाधारणमौण्डावतां तथैवेत्यादिनेति ॥१५॥ नियमविस्मरणेऽप्यामर्थक्यमाह । तविस्मरणेऽपि भेकौवत् ॥ १६ ॥ सुगमम्। भेक्याथेयमाख्यायिका। कश्चिदाजा रणयां गतो विपिने सुन्दरों कन्यां ददर्श। सा च राज्ञा भार्याभावाय प्रार्थिता नियमं चक्र यदा मह्यं त्वया जल प्रदर्यते तदा मया गन्तव्यमिति । एकदा तु क्रोडया परिवान्ता राजानं पप्रच्छ कुत्र जलमिति। राजापि समयं विस्मृत्य जलमदर्शयत् । तत: सा भेकराजदुहिता कामरूपिणी भेको भूत्वा जलं विवेश ततश्व राजा जालादिभिरविष्थापि न तामविन्ददिति ॥ १६॥ श्रवणवद्गुरुवाक्यमीमांसाया अप्यावश्यकले इतिहास माह। नोपदेशश्रवणेऽपि कृतकृत्यता परामर्शादृते विरोचनवत् ॥ १७॥ परामर्शो गुरुवाक्य तात्ययं निर्णायको विचारस्तं विनोपदेशवाक्य श्रवोऽपि तत्त्वज्ञाननियमो नास्ति प्रजापतेरुपदेशवणेऽपौन्द्रविरोचनयोर्मध्ये विरोचनस्य परामर्शाभावेन भ्रान्तत्वश्रुतरित्यर्थः । अतो गुरूपदिष्टस्य मननमपि कार्यमिति। दृश्यते चेदानीमप्ये कस्यैव तत्त्वमस्युपदेशस्य मानारूपैरथैः सम्भावना। अखण्डत्वमवैधर्म्यलक्षणाभदो विभागश्वेति ॥ १७॥ प्रतएव च परामर्थो दृश्यत इत्याह। For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy