SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थोऽध्यायः । बत्। यथा पिङ्गलानाम वेश्या कान्तार्थिनी कालमलब्धा निर्विमा सती विहायाशां मुखिनो बभूव तहदित्यर्थः । तदु. तम । आशा हि परमं दुःखं नैराश्यं परमं सुखम् । यथा सञ्छिद्य कान्ताशां सुखं सुष्वाप पिङ्गला॥ इति। नन्वाशामिवृत्त्या दुःखनिवृत्ति: स्यात् सुखं तु कुतः साधनाभावादिति । उच्यते। चित्तस्य सत्त्वप्राधान्य न खाभाविकं यत् सुखमाशया पिहितं तिष्ठति तदेवाशाविगमे लब्धवृत्तिकं भवति तेजः प्रतिबद्धजलशैत्यवदिति न तत्र साधनापेक्षा। एतदेव चार्थे सुखमित्यु च्यत इति ॥ ११ ॥ योगप्रतिबन्धकत्वादारम्भोऽपि भोगार्थ न कर्तव्योऽत्यथैव तदुपपत्ते रित्याह। अनारम्भऽपि परगृहे सुखो सर्पवत् ॥१२॥ सुखो भवेदिति शेषः। शेषं सुगमम् । तदुक्तम् । रहारम्भो हि दुःखाय न सुखाय कथञ्चन । सर्पः परकतं वेश्म प्रविश्य सुखमेधते ॥ १२ ॥ शास्त्र भ्यो गुरुभ्यश्च मार एव ग्राह्योऽन्यथाभ्यु पगमवादादिभिरंशतोऽसारभागेऽन्योऽन्यविरोधेनार्थबाहुल्यन चैकाप्रताया असम्भवादित्याह। . बहुशास्त्रगुरूपासनेऽपि सारादानं षट्पदवत् ॥१३॥ कर्तव्यमिति शेषः । अन्यत् सुगमम् । तदुताम् । अणुभ्यश्च महद्भ्यश्च शास्त्रेभ्यः कुशलो नरः । सर्वतः सारमादद्यात् पुष्य भ्य इव षट्पदः । इति। मार्कण्डेय पुराणे च। For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy