SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यदर्शनम। यथा झटित्य व चाण्डालाभिमानं त्यक्त्वा तात्त्विकं राजभावमेवालम्बते राजाहमस्मोति। एवमेवादिपुरुषात् परिपूर्णचिन्मावेगाभिव्यक्तादुत्पन्नस्त्व तस्यांश इति कारुणिकोपदेशात् प्रकत्यभिमानं त्यत्वा ब्रह्मपुत्रत्वादहमपि ब्रह्मैव न तु तहिलक्षण: संसारीत्य वं स्वस्वरूपमेवालम्बत इत्यर्थः । तथा गारुड़े । यथैकहेममणिना सर्व हेममयं जगत् । तथैव जातमोशेन जातेनाप्यखिलं भवेत् ॥ ग्रहाविष्टो हिजः कश्चिच्छद्रोऽहमिति मन्यते । ग्रहनाशात् पुनः खोयं ब्राह्मण्यं मन्यते यथा ॥ मायाविष्टस्तथा जीवो देहोऽहमिति मन्यते । मायानाशात् पुनः खौयं रूपं ब्रह्मास्मि मन्यते ॥ इति ॥१॥ स्त्रोशूद्रादयोऽपि ब्राह्मणेन ब्राह्मणस्योपदेशं श्रुत्वा कतार्थाः स्यरित्य तदर्थमाख्यायिकान्तरं दर्शयति । पिशाचवदन्यार्थोपदेशेऽपि ॥ २ ॥ अर्जुनार्थं श्रीकृष्णन तत्त्वोपदेशे क्रियमाणेऽपि समीपस्थ स्थ पिशाचस्य विवेकज्ञानं जातमेवमन्येषामपि भवेदित्यर्थः ॥२॥ यदि च सकदुपदेशाजनानं न जायते तदोपदेशात्तिरपि कर्तव्येतीतिहासान्तरणाह । ___ आत्तिरसकटुपदेशात् ॥ ३ ॥ उपदेशावृत्तिरपि कर्त्तव्या छान्दोग्यादी खेत केवादिक प्रत्यारुणिप्रभृतीनामसकदुपदेशेतिहासादित्यर्थः ॥ ३॥ वैराग्याथें निदर्शनपूर्वकमात्मसङ्घातस्य भङ्गरत्वादिकं प्रतिपादयति। पितापुत्रवदुभयोदृष्टत्वात् ॥ ४ ॥ For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy