SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थोऽध्यायः। १६५ जीवन्म तस्य तिष्ठतोत्याह तन्न। धर्माधर्मोत्पत्तिप्रसङ्गात् । अन्धपरम्पराप्रमझात्। अविद्यासंस्कारलेशसत्ताकल्पने प्रयोजनाभावाच। एतच्च ब्रह्ममीमांसाभाथे प्रपञ्चितमिति ॥८३॥ शास्त्रवाक्यार्थमुपसंहरति । विवेकान्निःशेषदुःख निवृत्तौ कृतकृत्यता नेतरान्नेतरात् ॥८४॥ उक्ताया विवेकसिद्धितः परवैराग्यहारा सर्ववृत्तिनिरोधेन यदा निशेषतो बाधिताबाधितमाधारण्येनाखिलदुःखं निवतते तदैव पुरुषः क्तवत्यो भवति। नेतराज्जीवन्म त्यादेरपौत्यर्थः। नेतरादिति वौसाध्यायसमाप्तौ ॥८४ ॥ अत्यन्तलयपर्यन्तः कार्योऽयक्तस्य नात्मनः । प्रोक्त एवं विवेकोऽव परवैराग्यसाधनम् ॥ इति विज्ञानभितुनिर्मिते कापिलमाङ्क्षयप्रवचनस्य भाष्ये वैराग्याध्यायस्तृतीयः । चतुर्थोऽध्यायः । शास्त्र सिद्धाख्यायिकाजातमुखेनेदानी विवेकज्ञानसाध. नानि प्रदर्शनीयानोत्येतदर्थ चतुर्थाध्याय प्रारभ्यते । राजपुत्रवन् तत्त्वोपदेशात् ॥१॥ पूर्वपादशेषसूत्रस्थविवेकोऽनुवर्तते । राजपुत्रस्य व तत्त्वो. पदेशादिवेको जायत इत्यर्थः । अत्रे यमाख्यायिका कश्चिद्राजपुत्रो गण्डनजन्मना पुरात्रिःसारित: शवरण केनचित् पोषितोऽहं शवर इत्यभिमन्यमान आस्त तं जीवन्त ज्ञात्वा कश्चिदमात्यः प्रबोधयति न त्वं शबरो राजपुत्रोऽसौति। स For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy