________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमोऽध्यायः।
त्वाभ्यां मानस त्वामानसत्वविशेषः । एषां विविधदुःखानां यात्यन्तनिवृत्तिः स्थलसूक्ष्मसाधारण्येन निःशेषतो निवृत्तिः । सोऽत्यन्त: परमः पुरुषार्थः पुरुषाणां बुडेरिष्ट इत्यवान्तरवाक्यार्थः। तत्र स्थलं दुःखं वर्तमानावस्थ तच्च हितोयक्षणा. दुपरि स्वयमेव नङ्खयति। अतो न तत्र ज्ञानापेक्षा। अतीतं तु प्रागेव नष्टमिति न तत्र साधनापेक्षेति परिशेषादनागता. वस्थ सूक्ष्म दुःख निवृत्तिरेव पुरुषार्थतया प्रकृते पर्यवस्यति । तथा च योगसूत्रम्। हेयं दुःखमनागतमिति । निवृत्तिश्च न नाशोऽपित्वतोतावस्था ध्वंसप्रागभावयोरतोतानागतावस्थास्वरूपत्वात् सत्कार्यवादिभिरभावानङ्गोकारात्। ननु कदाचिदप्यवर्तमानमनागतं दुःखमप्रामाणिकम् । अत: खपुष्पनिवृत्तिवत् तब्रिहत्तेर्न पुरुषार्थत्वं युक्तमिति । मैवम् । सर्वत्र हि खखकाय॑जननशक्तिर्यावदव्यस्थायिनौति पातञ्जले सिद्ध दाहादिशक्तिशून्यस्याग्न्यादेः क्वाप्यदर्शनात् । सा च शक्तिरनागतावस्थतत्तत्काय्यरूपा। इयमेव चोपादान कारणस्वरूपयोग्यतेत्यपि गीयते। अतो यावञ्चित्तसत्ता तावदेवानागतदुःखसत्तानुमौयते तबित्तिश्च पुरुषार्थ इति। जीवन्मुक्तिदशायां च प्रारब्धकर्मफलातिरितानां दुःखानामनागतावस्थानां वीजाख्यानां दाही विदेहकैवल्ये तु चित्तन मह विनाश इत्यवा. न्तरविशेषः। वौजदाहश्चाविद्यासहकार्युच्छेदमात्र ज्ञानस्याविद्यामानोच्छेदकत्वस्य लोके सिद्धत्वात् । अतएव चित्तेन सहैव दुःखस्य नाशः । ज्ञानस्य साक्षाद्द :खादिनाशकत्वे प्रमाणाभावादिति । ननु तथापि दुःखनितिन पुरुषार्थः सम्भवति दु खस्य चित्तधर्मलेन पुरुषे तन्नित्त्यसम्भवात् । दुःखनिवृत्तिशब्दस्य दुःखानुत्पादार्थकत्वेऽपि पुरुषे तस्य नित्यसिद्धवात्। यत् तु कण्ठचामौकरवत् सिद्धेऽप्यसिद्धत्वनमात्
For Private And Personal Use Only