SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३८ सांख्यदर्शनम् । नन्वेवं भोगायतनतया लिङ्गस्यैव शरीरत्व स्थूले कथं शरीरव्यवहारस्तत्राह । तदधिष्ठानाश्रये देहे तद्वादात् तद्वादः ॥ ११॥ तस्य लिङ्गस्य यदधिष्ठानमाश्रयो वक्ष्यमाणभूतपञ्चकं तस्याश्रये पाटकौशिक देहे तद्दादो देहवादस्तद्दादात् तस्याधिष्ठानशब्दोक्तस्य देहवादादित्यर्थः लिङ्गसम्बन्धादधिष्ठानस्य देहत्वमधिष्ठानाश्रयत्वाच्च स्थलस्य देहत्वमिति पर्यवसितोऽर्थः । अधिष्ठानशरीरं च सूक्ष्मं पञ्चभूतात्मकं वक्ष्यते तथा च शरौरत्त्रयं सिद्धम् । यत् तु । श्रतिवाहिक एकोऽस्ति देहोऽन्यस्त्वाधिभौतिकः । सर्वासां भूतजातीनां ब्रह्मणस्त्वक एवं किम् ॥ इत्यादिशास्त्रेषु शरौरद्दयमेव श्रूयतं तल्लिङ्गशरीराधिष्ठानशरौरयारन्याऽन्यनियतत्वेन सूक्ष्मत्वन चैकताभिप्रायादिति ॥ ११ ॥ ननु षाट् कोशिकातिरिक्त लिङ्गशरीराधिष्ठानभूते शरौरान्तरे किं प्रामाणमित्याकाङ्गायामाह । न स्वातन्त्रप्रात् तहते कायावञ्चितवच्च ॥ १२॥ तल्लिङ्गशरीरं ततेऽधिष्ठानं विना स्वातन्त्र्यान्न तिष्ठति । यथा छाया निराधारा न तिष्ठति यथा वा चित्रमित्यर्थः । तथा च स्थूलदेहं त्यक्त्वा लोकान्तरगमनाय लिङ्गदेहस्याधारभूतं शरीरान्तरं सिध्यतीति भावः । तस्य च स्वरूपं कारिकायामुक्तम् । सूक्ष्मा मातापिढजाः सहप्रभूतैस्त्रिधा विशेषा स्युः । सूक्ष्मास्तेषां नियता मातापितृजा निवर्त्तन्ते ॥ H इति । अन तन्मात्र कार्य्यं मातापिढजशरीरापेचया For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy