SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aateisध्यायः । १३७ वच्यति लिङ्गशरीरनिमित्तक इति सनन्दनाचा इति सूत्रेण । श्रतो भोगायतनत्वमेव मुख्य शरीरलक्षणम् । तदाश्रयतया त्वन्यत्र शरीरत्वमिति पश्चाद्यक्ती भविष्यति । चेष्टेन्द्रियार्थाश्रयः शरीरमिति तु न्यायेऽपि तस्यैव लक्षणं कृतमिति ॥ ८ ॥ ननु लिङ्गं चेदेकं तर्हि कथं पुरुषभेदेन विलक्षणा भोगाः स्य स्तत्राह । व्यक्तिभेदः कर्मविशेषात् ॥ १० ॥ यद्यपि सर्गादौ हिरण्यगर्भोपाधिरूपमेकमेव लिङ्ग तथापि ata yarsafaisो व्यक्तिरूपेयांगतो नानात्वमपि भवति । यथेदानीमेकस्य पिलिङ्गदेहस्य नानात्वमंशतो भवति पुत्रकन्यादिलिङ्गदेहरूपेण । तत्र कारणमाह कर्मविशेषादिति ॥ जीवान्तराणां भोगहेतुकर्मादेरित्यर्थः । अत्र विशेषवचनात् समष्टिसृष्टिर्जीवानां साधारणैः कर्मभिर्भवतीत्यायातम् । श्रयं च व्यक्तिभेदो मन्वादिष्वप्युक्तः । यथा मनौ समष्टिपुरुषस्य षडिन्द्रियोत्पत्त्यनन्तरम् । तेषां त्ववयवान् सूक्ष्मान् षण्णामप्यमितौजसाम् । सन्निवेश्यात्ममात्रासु सर्वभूतानि निर्ममे ॥ इति षणामिति समस्त लिङ्गशरीरोपलक्षणम् । श्रात्ममात्रासु चिदंशेषु संयोज्येत्यर्थः । तथा च तत्रैव वाक्यान्त रम् । तच्छरीरसमुत्पत्रैः कायैस्तैः करणैः सह । क्षेत्रज्ञाः समजायन्त गात्रेभ्यस्तस्य धीमतः ॥ इति ॥ १० ॥ For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy