________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६
संदेह- सौम्यचारुरूपमिति व्यक्तं, पेच पश्यति, सा त्रिशला, गगनमंडलस्य विशालं सौम्यं चंक्रम्यमाण । या जंगमं तिलकमिव विषाहेतुत्वात् 'गगणगमणित्ति' पाठे तु गम्यते तेनास्मिन्निति वा गमनं
| मार्गः गगनस्य गमनं, शेषं पूर्ववत्, रोहिण्या नदात्रविशेषस्य मनश्चित्तं तस्य हितदोऽनुकूलदायी | वल्लनः प्रियस्तं, एकनरानुरागमात्रेणापि किल वसन्नः स्यादित्येकपादिकप्रेमनिरासार्थ हितद इति विशेषणं, सर्वनदवाधिपत्येऽपि यदत्र रोहिणीवल्लन इति विशेषणं, तल्लोकरूड्या, पूर्णोऽविकलश्चंद्र थाहादोऽस्मादिति चंद्रः, अथवा पूर्णश्चंद्रो दीप्तिर्यस्य, मेघाद्यनावरणात्स तथा तं, अत एव समुल्लासंतं प्रतिदणं देदीप्यमानं ॥६॥
ततः सूर्य पश्यति, अतमःपटलं परिस्फुट, तमःपटलस्याऽनावोऽतमःपटलं, तेन परिस्फुटं सर्व दिख प्रकटं, अथवा तमःपटलं परिस्फोटयतीति तमःपटलपरिस्फोटः, 'स्वराणां स्वरा' इति तत्र तं
चेव शब्दस्याऽवधारणार्थस्य व्यवहितसंबंधात्तेजसैव प्रज्ज्वलपं, प्रकृत्या हि सूर्यमंडलवर्त्तिवादरपृथिवीकायिकाः शीतला एव, अथवा चेवत्ति समुच्चयार्थः, रक्ताशोकश्च प्रकाशत् किंशुकश्च पुष्पितप. लाशस्तथा शुकमुखं च गुंजार्धश्च तेषां रागेण सदृशं, आरक्तत्वात्, कमलवनमलंकरोति विकाशः |
For Private And Personal Use Only