________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailassagersuri Gyanmandir
शान्तिनाथ
जिनस्तोत्र
॥ ३५॥
सकलमङ्गलसम्भवकारणं, परममक्षतभावकृते जिनम् ।
सुपरिणाममयैरहमक्षतेः, परमया रमया युतमर्चये ॥६॥ सकलेति । अहं जिन अचय । किमर्थ जिनार्चनं ? तबाहनास्ति क्षतं विनाशो यस्या क्षतचासो भवच तस्य प्रासये मोक्षमुखार्थ केवलज्ञानरूपभावकृते च । कैरर्चनं ? तत्राह-शोभनाच ते परिणामाश्च तत्मचुराः सुपरिणामप्रायास्तैः सुन्दरमनोव्यापारमयैरक्षतैः । कथं भूतं जिन ? परमं श्रेष्ठं । पुनः कीदृशं ? सकलानि समग्राणि च तानि मङ्गलानि सुखानि च तेषां संभवस्य जननस्य कारणं तत् । पुनः कीदृशं ? परमया-श्रेष्ठया रमया शोभया युतं सहितं ॥ ६॥
अमलशान्तिरसैकनिधि शुचि-गुणफलर्मलदोषहरैरहम् ।
परमसिद्धिफलाय यजे जिनं, परहितं रहितं परभावतः ॥७॥ ___ अमलेति । अहं जिनं यजे अर्चये । किमर्थ ? परमा चासौ सिद्धिश्च सैव फलं तस्मै मोक्षरूपफलाय । कीदृशं जिनं ? परस्यान्यस्य हितो हितकारकः तं । पुनः कीदृशं ? परस्य भावस्तस्मात् परोऽयमित्याशयतः रहितं शून्य । पुनः कीदृशं ? अमल: निर्मलश्चासौ शान्तिरसश्च तस्यैकनिधिः एकसमुद्रस्तं । कैरर्चनं ? मलाच दोषाश्च तान्हरन्तीति मलदोषहराणि तः शुचिगुणाः एव फलानि तैः पवित्रगुणरुपफलैः ॥७॥
सकलचेतनजीवनदायिनी, विमलभक्तिविशुद्धरसान्विता । भगवतः स्तुतिसारसुखाशिका, श्रमहरा महरास्तु विभो पुरः॥८॥
For Private And Personal use only