SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शान्तिनाय ॥ ३४ ॥ www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir विमलेति । विमलं च निर्मलं च तत्केवलदर्शनं च केवलज्ञानं च तेन संयुतः सहितस्तं, सकलाथ समस्ताम्र ते जन्तवश्च प्राणिनश्च तेषां महांवासादयश्च तस्य महोदयस्य कारणं जनकं तत्, अईं स्वस्थ स्वकीयस्य गुणाः तेषां शुद्धिः शुद्धयर्यमिति स्वगुणशुद्धिकृते स्वगुणानां निर्मलता प्राप्त्यर्थं नव संख्यांकाः वर्णाः रङ्गाः यस्मिन् तत् नवरंग नवरंगमचुरं, नवरंगमयं च तदभव जलं च तेन, वा नवाश्च ते रंगाश्व नवरंगा नूतनवर्णा तत्प्रचुरं नवरंगमयं च तदभव तेन नवसंख्यांकाः, नूतना वा ये वर्णास्तत् बहुलजलेन नूतनस्नेहमयजलेन वा जिनेषु वर श्रेष्ठस्तं स्नपयामि स्नातं करोमि ॥ १ ॥ जगदुपाधिचयाद्रहितं हितं, सहजतत्त्वकृते गुणमन्दिरम् । विनयदर्शन केशरचन्दनै-रमलहन्मलहज्जिनमर्चये ॥ २ ॥ जगदिति । जगतां भुवनानां उपाधय उपद्रवास्तेषां चयः समूहः तस्मात् रहितं शून्यं हितं हितकारकं, गुणानां क्षमादीनां मन्दिरं स्वानं तत्, विनयपूर्वकं दर्शनं प्रत्यक्षं विनयदर्शनं च केशरमिश्रितानि चन्दनानि केशरचन्दनानि च विनयदर्शननान्येव केशरमिश्रितचन्दनावा तैः सहजं च तत्तत्रं च सहजतत्त्वार्यमिति सहजतस्वकृते स्वाभाविकात्मस्वरूप प्राप्त्यर्थ, अमलं निर्मलं हृत् हृदयं यस्य अमहत् चासौ म पापादिकं हरति मलहृथाऽसौ जिनव तं अर्चये पूजये ॥ २ ॥ सुकरुणासुनृतार्जवमार्दव- प्रशमशौचदमादिसुमैर्जनाः । परमपूज्यपदस्थितमर्चत, परमुदारमुदारगुणं जिनम् ॥ ३ ॥ झुकरुणेति । जनाः ! हे लोकाः ! सुकरुणा च शोभना कृपा च सुनृतं च प्रियं रम्यंवचनं, चार्जवं च सरलता, च मार्दवं च मृदुता, For Private And Personal Use Only जिनस्तोत्रं ।। ३४ ।।
SR No.020614
Book TitleSadharan Jain Stotra Sangraha
Original Sutra AuthorN/A
AuthorMuktivimal Gani
PublisherMansukhlal Shah
Publication Year1920
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy