SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandie श्रीव्यवहारसूत्रस्य अष्टम विभागः। अ० उ० ॥५०॥ असिवादीकारणिया निकारलिया य चक्कथूभादी। उवएस अणुवएसा दुविहा श्राहिंडगा इंति ॥२६॥ ___ अशिवादिभिरादिशब्दादवमौदर्यराजद्विष्टादिपरिग्रहः कारणैरेकाकिनः काराणिकाः, चक्रस्तूपादौ प्रादिशब्दात्प्रतिमानिष्क्रमणादिपरिग्रहस्तेषां वन्दनाय गच्छन्त एकाकिनो निष्कारणिका ये आहिण्डकास्ते द्विविधा भवन्ति तद्यथा उपदेशतोऽनुपदेशतश्च । तत्र ये उपदेशेन ते द्वादशसंवत्सराणि सूत्रं गृहीत्वा द्वादशसंवत्सराणि तस्यैव सूत्रस्यार्थ गृहीत्वा य आचार्यकं कर्तुकामः स द्वादशसंवत्सराणि देशदर्शनं करोति । तस्य व्रजतो जघन्येन संघाटको दातव्यः उत्कर्षेणानियताः साधवः येऽनुपदेशेन देशदर्शनं कुर्वन्ति ते चैत्यानि वन्दिष्यामहे इत्यवधिं कृत्वा व्रजन्ति । श्रोहावंता दुविहा लिंगे विहारे य होंति नायव्वा। एगागी छप्पेते विहारे तहिं दोनु समगुन्ना ॥२६५॥ ___अवधाविनो द्विविधा-लिङ्गेन विहारेण च । लिङ्गेनोत्प्रवजितुकामा विहारेण पार्श्वस्थविहारेण विहर्तुकामा भवन्ति |वातव्याः। पडप्पेते कारणिका १ निष्कारणिका २ औपदेशिका ३ अनौपदेशिका ४ लिङ्गेनावधाविनः५ । विहारेणावधाविनश्च ६ प्रायेणैते एकाकिनो विहरन्ति गच्छन्ति वा औपदेशिका यद्यपि नियमतः ससहायास्तथापि येन गच्छानिर्गतास्ते न एकाकिनो भण्यन्ते । इतरेऽपि पञ्च यद्यपि वृन्देन हिण्डन्ते तथापि गच्छान्निर्माता एकाकिनः प्रोच्यन्ते । तत उक्तं षडप्येते विहारिण एकाकिनस्तहि तेषु षट्स मध्ये द्वयोः समनोज्ञा द्वयोः सांभोगिकास्तद्यथा अशिवादिकारणिका उपदेशा हिण्डकाश्च तेरानीतानि भाजनानि ग्रहीतव्यानि, शेपैरानीतानां भजना कारणैर्गृह्यन्ते निष्कारणे नेति । For Private and Personal Use Only
SR No.020612
Book TitleSabhashya Vyavahar Sutra Ashtamoddeshak
Original Sutra AuthorN/A
AuthorVakil Keshavlal Premchand Modi
PublisherVakil Keshavlal Premchand Modi
Publication Year
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy