SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . रसगङ्गाधरः। यथा 'सरसिजवनबन्धुश्रीसमारम्भकाले . रजनिरमणराज्ये नाशमाशु प्रयाति । परमपुरुषवक्त्रादुद्गतानां नराणां ___ मधुमधुरगिरां च प्रादुरासीद्विनोदः ॥' अत्रोषसीत्येकपदार्थस्याभिधानाय प्रथमचरणः । इत्याद्यग्रेऽपि बोध्यम् । 'खण्डितानेत्रकञ्जालिमञ्जरञ्जनपण्डिताः । मण्डिताखिलदिवप्रान्ताश्चण्डांशोभन्ति भानवः ॥' अत्र 'यस्याः पराङ्गनागेहात्पतिः प्रातगृहेऽञ्चति' इति वाक्याथै खण्डितापदाभिधानम् । 'अयाचितः सुखं दत्ते याचितश्च न यच्छति । सर्वस्वं चापि हरते विधिरुच्छृङ्खलो नृणाम् ॥' अत्र दैवाधीनं सर्वमित्येकस्मिन्वाक्यार्थे नानावाक्यरचनात्मको व्यासपदवाच्यो विस्तरः। 'तपस्यतो मुनेर्वक्त्राद्वेदार्थमधिगत्य सः । वासुदेवनिविष्टात्मा विवेश परमं पदम् ॥ अत्र मुनिस्तपस्यति तद्वक्त्रात्स वेदार्थमधिगतवान्, तदनन्तरं वासुदेवे परब्रह्मणि मनः प्रावेशयत्, ततश्च मुक्तोऽभूदिति वाक्यार्थकलापः शतृ-क्त्वाबहुव्रीहिभिस्तिङन्तेन चानुवाद्य विधेयभावेनैकवाक्यार्थीकृतः । साभिप्रायत्वं च प्रकृतार्थपोषकता। द्वितीयचरणोऽपि तदर्थे । तृतीयचरणेन ब्राह्मणानामित्यर्थलाभः । ईशमुखजत्वात्तेषाम् । उद्गतानामित्यस्य गिरां चेत्यत्रापि संबन्धः । अत एव च वेदानामित्यर्थलाभ: । द्विती. योदाहरणमाह-खण्डीति । कजं कमलम् । सूर्यस्य किरणाः । खण्डितानेत्ररञ्जकत्वं तु तदा प्रियदर्शनेनेति बोध्यम् । अञ्चति गच्छति । तृतीयोदाहरणमाह-अयाचीति । उच्छवलो निर्मर्यादः । तुर्योदाहरणमाह-तपेति । सः परमभक्तः कश्चित् । अत्रेत्यस्यादाविति शेषः । तद्वक्त्रादित्यस्य तत इत्यादिः । आत्मशब्दार्थमाह-मन इति । For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy