SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६० काव्यमाला | अत्र विध्यादिभिर्नास्ति किमपि प्रयोजनमित्येषोऽर्थः समाधिविधानादिप्रेरणारूपेणोक्तिवैचित्र्येणाभिहितः । अन्यथानवी कृतत्वापत्तेः । अकाण्डे शोकदायित्वाभावरूपमपारुष्यं सुकुमारता । यथा -- ' त्वरया याति पान्थोऽयं प्रियाविरहकातरः । 'प्रियामरणकातरः' इत्यत्र तु शोकदायिनो मरणशब्दस्य सत्त्वात्पारुप्यम् । इदं चाश्लीलतादोषव्याप्यम् । वस्तुनो वर्णनीयस्यासाधारणक्रियारूपयोर्वर्णनमर्थव्यक्तिः । यथा- गुरुमध्ये कमलाक्षी कमलाक्षेण प्रहर्तुकामं माम् । रदयन्त्रितरसनायं तरलितनयनं निवारयांचके ॥ अयमेवेदानींतनैः स्वभावोक्त्यलंकार इति व्यपदिश्यते । 'चुम्बनं देहि मे भार्ये कामचाण्डालतृप्तये' इत्यादिग्राम्यार्थपरिहार उदारता । एकस्य पदार्थस्य, बहुभिः पदैरभिधानं बहूनां चैकेन, तथैकस्य वाक्यार्थस्य बहुभिर्वाक्यैर्वहुवाक्यार्थस्यैकवाक्येनाभिधानं विशेषणानां साभिप्रायत्वं चेति पञ्चविधमोजः । यदाहुः 'पदार्थ वाक्यरचना वाक्यार्थे च पदाभिधा । प्रौढिर्व्याससमासौ च साभिप्रायत्वमस्य च ।।' इति । पूर्वार्धप्रतिपाद्यं द्वयं व्याससमासौ चेति चतुष्प्रकारा प्रौढिः, साभिप्रायत्वं चेति पञ्चप्रकारमोज इत्यर्थः । प्रौढिः प्रतिपादनवैचित्र्यम् । अनवीति । दोषोऽयम् । अकाण्डेऽनवसरे । मार्गे विवक्षित देशप्राप्ते रुद्देश्यत्वे नावसर इति शोकस्यानवसरः । प्रत्युदाहरणमाह - प्रियेति । ननु शोकदायित्वरूपं पारुष्यं न दोषेषु गणितमत आह- इदं चेति । तदन्तः पात्यमङ्गलरूपत्वादिति भावः । रूपं स्वरूपम् । कमलाक्षीति स्वरूपम् । रदेत्यादि क्रिया । अयमेव अर्थव्यक्त्याख्यगुण एव । उक्तक्रमेणैवाह – पदार्थ इति । व्यासेति । तथेत्यादिनोक्तौ । अस्य विशेषणस्य । प्रौढपदार्थमाह-प्रतीति । क्रमेणोदाहरणान्याह - यथेत्यादिना । इत्याद्यग्रे ऽपीति । For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy