SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । 'मृणालमन्दानिलचन्दनानामुशीरशेवालकुशेशयानाम् । वियोगदूरीकृतचेतनाया विनैव शैत्यं भवति प्रतीतिः ॥' अत्र शैत्यस्याविनाभावेऽपि विनाभावो निबद्धः । यथा वा 'शैत्यं विना न चन्द्रश्रीन दीपः प्रभया विना । न सौगन्ध्यं विना भाति मालतीकुसुमोत्करः ।।' अलंकारान्तरसमालिङ्गनाविभूतमेवास्या हृद्यत्वम्, न स्वतः । तेनालंकारान्तरत्वमपि शिथिलमेवेत्यपि वदन्ति । अथास्या ध्वनिःयथा'विशालाभ्यामाभ्यां किमिह नयनाभ्यां फलमसौ न याभ्यामालीढा परमरमणीया तव तनुः । अयं तु न्यकारः श्रवणयुगलस्य त्रिपथगे । यदन्त यातस्तव लहरिलीलाकलकलः ॥' अत्र त्वदर्शनं विना नयनयोः, त्वल्लहरिकोलाहल श्रवणं विना श्रवणयोश्चारमणीयत्वं फलप्रश्नधिक्काराभ्यां व्यज्यते । तस्य च भावध्वन्यनग्राहकत्वेऽपि ध्वनिव्यपदेश्यत्वमव्याहतम् । अन्यथानुग्राहकत्वलक्षणसंकरोच्छेदापत्तेः । एवं च'निरर्थकं जन्म गतं नलिन्या यया न दृष्टं तुहिनांशुबिम्बम् । उत्पत्तिरिन्दोरपि निष्फलैव कृता विनिद्रा नलिनी न येन ॥' इति कस्यचित्कवेः पद्यं विनोक्तिध्वनिरेव । परंतु परस्परविनोक्तिवशाद्वैलक्षण्यशालि। इति रसगङ्गाधरे विनोक्तिप्रकरणम् । शैत्यं विनैव तेषां प्रतीतिर्भवतीत्यर्थः । शैत्यस्येति । मृणालादीति सहेति शेषः । एवं रमणीयत्वे उदाहरणं दत्त्वा अरमणीयत्वे उदाहरति—यथेति । आलीढा दृष्टा । न्यक्कारस्तिरस्कारः । यदन्तरिति । श्रवणयुगलान्तरित्यर्थः । त्वद्दर्शनं भागीरथीदर्शनम् । तस्य च व्यज्यमानारमणीयत्वस्य । भावेति । कविनिष्टगङ्गाविषयकेत्यादिः । अन्यथा अनुग्राहकत्वात्तव्यपदेशानङ्गीकारे । एवं च तस्य तद्व्यपदेश्यत्वे च । वैलक्षण्योत । पूर्वोदाहरणापेक्षयेति भावः ।। इति रसगङ्गाधरमर्मप्रकाशे विनोक्तिप्रकरणम् ॥ For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy