SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः। पूर्वा तु केवला, इयं तु दीपकानुकूला । मिश्रिता यथा-- 'रागं विना विराजन्ते मुनयो मणयस्तु न । कौटिल्येन विना भाति नरो न कबरीभरः ॥' अत्र प्रतिवस्तूपमानुकूला। 'त्रासैविना विराजन्ते शूराः सन्मणयो यथा । न दानेन विना भान्ति नृपा लोके द्विपा इव ।।' अत्र श्लेषमूला उपमानुकूला। 'यथा तालं विना रागो यथा मानं विना नृपः । यथा दानं विना हस्ती तथा ज्ञानं विना यतिः ॥' पूर्व क्रियागुणादिसंबन्ध आवश्यकः इह तूपमामाहात्म्यावदगम्यते स इति न तथा । इयं च न केवलं विनाशब्दस्य सत्त्व एव भवति । अपि तु विनाशब्दार्थवाचकमात्रस्य । तेन नज-निर-वि-अन्तरेण ऋते-रहित-विकल इत्यादिप्रयोगे इयमेव । 'निर्गुणः शोभते नैव विपुलाडम्बरोऽपि ना । आपातरम्यषप्पश्रीशोभितः शाल्मलिर्यथा ॥' अलंकारभाष्यकारस्तु 'नित्यसंबन्धानामसंबन्धवचनं विनोक्तिः' इत्याह । तस्य मते तु नैतान्युदाहरणानि । इदं तूदाहरणम्म् । पूर्वा अरमणीयत्वोदाहृतत्वावच्छिन्ना । तयोर्नरराजयोवर्णनेन तदीयत्वेन सर्वेषां प्रकृतत्वात् । इयं रमणीयलोदाहृता । मिश्रिता यथेति । विनाकृतस्य वस्तुनो रमणीयत्वारमणीयत्वाभ्यां मिश्रितेत्यर्थः । रागमनुरागं लौहित्यं च । कौटिल्येन वक्रान्तःकरणेन वक्रतया च । वासो भयं दोषश्च । दानं वितरणं मदजलं च । द्विपा गजाः । अत एवाह-अत्रति । इदं पर्वोदाहरणेऽपि बोध्यम् । दीपकासंसृष्टं विषयं प्रदर्शयन्नरमणीयत्वे उदाहरति-यथेति । न शोभते इति सर्वत्र बोध्यम् । ताल: संगीतशास्त्रप्रसिद्धो ध्वनिविशेषः । यति: संन्यासी । स क्रियादिसंबन्धः । तथेति । नावश्यक इत्यर्थः । अयमेव पूर्वतो विशेष इत्यर्थः । इयं च विनोक्तिश्च । आदिना अनादिसंग्रहः । निर्गुण इति । बबादम्बरोऽपि ना पुरुषः निर्गुणः मन्नैव शोभत इत्यर्थः । चेतना बुद्धिः तस्याः For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy