SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः। २७९ रोपपूर्वकत्वं क्वचिद्विषयिताद्रूप्यविषयनिषेधयोरेकस्य शाब्दत्वमेकस्यार्थत्वं क्वचिदुभयोः शाब्दत्वमथोमयोरार्थत्वं विधेयत्वमनुवाद्यत्वं चेति । एवमनेके प्रकाराः संभवन्ति । परं तु न ते वैचित्र्यविशेषमावहन्तीत्यगणनीयाः । एवमपि दिङ्मात्रमुपदयते-तत्र प्रागुक्तायां सावयवापद्रुतौ प्रथमावयवेऽपह्नवपूर्वकत्वमुभयोः शाब्दत्वं विधेयत्वं वाक्यभेदश्च । द्वितीयावयवे तु वक्तृगतमूढतोक्त्या तद्गतभ्रान्तिप्रतिपत्तिव्यवहिता निषेधप्रतिपत्तिरिति निषेध आर्थः । तादूप्यं शाब्दम् । विधेयत्ववाक्यभेदापहवपूर्वकत्वानि पूर्ववत् । चतुर्थावयवे पुनरारोपपूर्वकोऽपह्नवः । उभयोः शाब्दत्वविधेयत्वे वाक्यभेदश्च प्रथमवदेव ।। 'वदने विनिवेशिता भुजंगी पिशुनानां रसनामिषेण धात्रा। अनया कथमन्यथावलीढा नहि जीवन्ति जना मनागमन्त्राः ॥' अत्रैकवाक्यत्वं निषेधताप्ययोरार्थत्वं विधेयत्वं च । निवेशनस्य विधेयत्वात् । एवमन्यदप्यूह्यम् । अत्र च लक्षणे आरोप्यमाणमित्यस्याहार्यनिश्चयविषयीक्रियमाणमित्यर्थः । तेन 'सङ्ग्रामाङ्गणसंमुखाहतकियद्विश्वंभराधीश्वर व्यादीर्णीकृतमध्यभागविवरोन्मीलन्नभोनीलिमा । स्मिन् तनिषेधे । तस्य वाक्यस्य । निषेधयोरिति । मध्य इति शेषः । अथेति । क्वचिदित्यर्थः । अनुवाद्यत्वं चेति । उभयोरप्यनुवाद्यत्वं विधेयत्वं चेत्यर्थः । क्वचिदित्यस्यानुषङ्गः । असतेव(?)निरासायाह-एवमपीति । चमत्कारित्वाभावेऽपीत्यर्थः । दश्यत इति । उक्तप्रकारजातमिति शेषः । तत्र तेषां मध्ये । प्रथमेति । स्मितमिति पादप्रतिपाद्ये इत्यर्थः । अपह्नवेति । निषेधस्य प्रागुल्लेखादिति भावः । उभयोस्तद्रूपानिषेधयोः । अस्य त्रिष्वन्वयः । एतत्पदार्थस्योद्देश्यत्वादाह--विधेयेति । द्वितीयेति । मुखमिति पादप्रतिपाद्य इत्यर्थः । तुरुक्तवैलक्षण्ये । तदेवाह-वक्तृगतेति। स्तनद्वन्द्वमिति पादप्रतिपाद्यततीयावयवस्य द्वितीयेन तुल्यत्वात्तमुपेक्ष्याह-चतुर्थेति । लतेति पादप्र. तिपाद्य इत्यर्थः । पुनःशब्दो वैलक्षण्ये । वाक्यैक्यस्योदाहरणं सप्रकारभेदमाह-वदन इति । अनया रसनया । अमन्त्रा जीवनोपायशून्याः । आर्थत्वमनुवाद्यत्वं च' इत्येव युक्तः पाठः । 'विधेयत्वं च' इत्यपपाठः । अत एवाह-निवेशनेति । आहार्थत्वनिवेशफलमाह-तेनेति । तै शितमध्यभागेन यद्विवरं तस्मादुन्मीलन्प्रकाशमान आकाशनै For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy