SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः । यथा 'अलिमंगो वा नेत्रं वा यत्र किंचिद्विभासते । अरविन्दं मृगाङ्को वा मुखं वेदं मृगीदृशः ॥' अत्र वक्तुः कवेस्तत्त्वज्ञतया संशयावाहार्यावेव । परम्परितोऽपि चायं संभवति'विद्वदैन्यतमस्त्रिमूर्तिरथवा वैरीन्द्रवंशाटवी___ दावाग्निः किमहो महोज्ज्वलयशःशीतांशुदुग्धाम्बुधिः । किं वानङ्गभुजंगदष्टवनिताजीवातुरेवं नृणां केषामेष नराधिपो न जनयत्यल्पेतराः कल्पनाः ॥' 'अत्राप्याहार्यः । क्वचित्परनिष्ठोऽपि कविना निबध्यमान आहार्यों भवति । यथा'गगनाद्गलितो गभस्तिमानुत वायं शिशिरो विभावसुः । मुनिरेवमरुन्धतीपतिः सकलज्ञः समशेत राघवे ॥' अत्र मुनर्वसिष्ठस्य सर्वज्ञत्वेनोपात्तस्य संशय आहार्य एव । यद्यप्यत्र 'मुनीनां च मतिभ्रमः' इत्युक्त्या तस्यानाहार्य एव संशयो वक्तुं शक्यः, तथापि कोटितावच्छेदकयोः शिशिरत्वगगनगलितत्वयोरग्निसूर्यरूपकोटिद्वये आहार्यबोधस्यैवावश्यवाच्यतया पुरोवर्तिन्यभेदेन कोटिद्वयाभेदांशेऽपि तस्यैव न्याय्यत्वात् । इह च कोव्योधर्मिसादृश्यदाळयोष्णत्वगव्यवच्छेदः । यत्र मुखरूपवस्तुनि । इदमेवाग्रे इदंपदार्थः । प्रत्यासत्तिन्यायेनाह-कवे. रिति । परम्परितोऽपीति । अत्रारोपस्यारोपमात्रत्वेन परम्परितत्वम्, न तु संशयस्य संशयोपादेयत्वेन । दैन्यादीनां तमस्त्वादिसंदेहाविषयत्वादिति बोध्यम् । त्रिमूर्तिः ऋग्यजुःसामात्मकः सविता । वैरीन्द्रेति । वैरिश्रेष्ठा एव वंशारण्यमित्यर्थः । जीवातुर्जीवनौ. षधम् । अल्पेतरा बहवः । कल्पनाः संशयाः । स्वगत एवेत्यवधारणमयुक्तमित्याहकृचित्परनिष्टोऽपीति । यद्यपि विद्वदैन्येत्युदाहृतोऽपि परनिष्ठो भवति तथापि केषामिति सामान्येन निर्देशात्स्वनिष्ठोऽपि भवतीत्यत उदाहरणान्तरमाह-गगनादिति । विभावसुरग्निः । मुनिर्वसिष्ठः । समशेत संशयं कृतवान् । अत्र गगनादिपद्ये । चोऽन्यसमुच्चायकः । तस्य वसिष्ठस्य । पुरोवर्तिनि श्रीरामे। वर्तिन्यभेदेनेति चिन्त्यम् । तस्यैव ३४ For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy