SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४६ काव्यमाला। दुईत्ते शनितां नृलोकवलये राजत्वमव्याहतं मित्रत्वं च वहन्नकिंचनजने देव त्वमेको भुवि ॥' अत्र शशिनियन्त्रणेऽपि बुधत्वशुक्रत्वादीनि बुधाद्यभेदरूपाणि राजनि व्यज्यन्ते । यथा वा-- 'अविरलविगलदानोदकधारासारसिक्तधरणितलः । धनदायमहितमूर्तिर्देव त्वं सार्वभौमोऽसि ॥' अर्थशक्तिमूलो यथा 'करतूरिकातिलकमालि विधाय सायं स्मेरानना सपदि शीलय सौधमौलिम् । प्रौढिं भजन्तु कुमुदानि मुदामुदारा ___मुल्लासयन्तु परितो हरितो मुखानि ॥' अत्र त्वदीयमाननं कलङ्कचन्द्रिकाविशिष्टचन्द्राभिन्नमिति रूपकं कुमुदविकासादिना ध्वन्यते । न तु भ्रान्तिमान् । कुमुदानां हारतां चाचेतनत्वात् । न चाचेतनेषु मुदामसंभवादत्यवश्यं कुमुदादिषु चेतनत्वारोपेण भाव्यम्, तेन च भ्रान्तिसिद्धिरिति वाच्यम् । मुत्पदस्य विकासे लाक्षणिकत्वात् । इदं वा विविक्तमुदाहरणम्'तिमिरं हरन्ति हरितां पुरः स्थितं तिरयन्ति तापमथ तापशालिनाम् । वदनत्विषस्तव चकोरलोचने परिमुद्रयन्ति सरसीरुहश्रियः ॥' इहापि वदनं चन्द्र इति गम्यते । शुक्रत्वं च । माङ्गल्यं शोभनत्वमङ्गारकत्वं च । गौरवं श्रेष्ठत्वं बृहस्पतित्वं च । दुर्वृत्ते शनितां अशनितां शनितां च । वज्रत्वं मन्दत्वं चेत्यर्थः । राजत्वं नृपत्वं चन्द्रत्वं च। मित्रत्वमाप्तत्वं सूर्यत्वं च । नियन्त्रणेति । प्रकरणादिति भावः । धारासारेत्यत्र ‘स कीचकैः' इतिवदासारपदं संपातमात्रपरम् । व्याख्यातमिदम् । पूर्व विशेषणेष्वेव ध्वनिः, अत्र तु विशेष्येऽपीति पूर्वतो भेदः । सार्वभौमश्चक्रवर्ती दिग्गजश्च । सौधमौलिं गृहशिखरम् । मुदां विकासानाम् । उदारामतिशयिताम् । हरितो दिशः कर्व्यः। विविक्तं भ्रान्तिमद For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy