SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः। २०३ ते सर्वेऽप्युपमात्वाकान्तत्वादस्यामपि बोध्याः। अयं पुनरन्योऽपि दोषः-- यदेकोपमावैलक्षण्यमपरस्यामुपमायाम् । यथा-'कमलमिव वदनमस्या वदनेन समं तथा कमलम्' अत्र श्रोत्यार्थीकृतं वैलक्षण्यम् । 'कमलति वदनं तस्याः कमलं वदनायते जगति' विपक्यतमत्र वैलक्षण्यम् । एवमत्रैव 'पद्मं वदनायते' इति निर्माणे 'वक्रायते' इति वा उपमानोपमेयवाचकवैलक्षण्यम् । एवं प्रकारैरनेकैलक्षण्यं यदि सहृदयोद्वेजकं तदा दोषः । इति रसगङ्गाधरे उपमेयोपमाप्रकरणम् । अथानन्वयःद्वितीयसदृशव्यवच्छेदफलकवर्णनविषयीभूतं यदेकोपमानोपमेयकं सादृश्यं तदनन्वयः। स च कस्याप्युपस्कारत्वेऽलंकारः । अन्यथा तु शुद्धः । 'लोहितपीतैः कुसुमैरावृतमाभाति भूभृतः शिखरम् । दावज्वलनज्वालैः कदाचिदाकीर्णमिव समये ॥' अत्र लोहितपीतकुसुमावृतं भूभृतः शिखरं स्वेनैव कस्मिंश्चित्समये दावज्वालाकीर्णेनोपमीयते । इति तत्सादृश्यवारणाय भूतान्तम् ।। इदं वा प्रत्युदाहरणम् -- 'नखकिरणपरम्पराभिरामं किमपि पदाम्बुरुहद्वयं मुरारेः । अभिनवसुरदीर्घिकाप्रवाहप्रकरपरीतमिव स्फुटं चकासे ॥' अत्रापि नखकिरणपरम्पराभिरामं हरेः पदाम्बुजं स्वात्मनैव सुरदीर्घिकाप्रवाहप्रकरपरीतेनोपमीयते । संप्रति सुरदीर्घिकाप्रवाहेण भगवत्पादाम्बुरुहस्य संबन्धाभावात्सुरनिम्नगोत्पत्तिकालावच्छिन्नस्य तस्योपमानताववास्या एव भेद इति प्रतिज्ञावाक्ये उक्तम् । तदवृत्त्यत्र दोषमाह-अयं पुनरिति । इति वेति । कमलमित्यादिः । निर्माणे इत्यस्यानुषङ्गः । उपसंहरति-एवमिति । यदीत्यनेन तदभावेऽदुष्टत्वमेवेति सूचितम् ॥ इति रसगङ्गाधरमर्मप्रकाश उपमेयोपमाप्रकरणम् ॥ शुद्ध इति । स्ववैचित्र्यमात्रविश्रान्त इत्यर्थः । भूभृतः पर्वतस्य । कदाचित्समये तैराकीर्ण स्वमिवेत्यर्थः । स्फुटत्वाय प्रत्युदाहरणान्तरमाह-इदं वेति । अत एवाहअत्रापीति । स्वात्मनैव पदाम्बुजद्वयेनैव । संप्रति वर्णनकाले । तस्य प्रवाहस्य । अत्र For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy