SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः। २०१ प्रस्पन्दमानपरुषेतरतारमन्त श्चक्षुस्तव प्रचलितभ्रमरं च पद्मम् ॥' इति कालिदासपये प्रतिपाद्यायामुपमानोपमेययोर्युगपदुपमेयोपमानभावायामुपमेयोपमायां वाक्यभेदाभावादव्याप्तेश्च । न चात्रापाततः शब्दक्येऽपि पर्यवसितो वाक्यभेदोऽस्तीति वाच्यम् । तथापि 'सविता विधवति विधुरपि सवितरति दिनन्ति यामिन्यः । ___ यामिनयन्ति दिनानि च सुखदुःखवशीकते मनसि ॥' इति कस्यचित्कवेः पद्ये परस्परोपमायामतिव्याप्तेः । न चेयमुपमेयोपमेति शक्यते वक्तुम् । सुखसमये दुःखदोऽपि सुखयति । दुःखसमये च सुखदोऽपि दुःखयति इत्येतावन्मात्रस्यार्थस्य विवक्षितत्वात्तृतीयसदृशव्यवच्छेदापत्तेः। एवम्- - 'रजोभिः स्यन्दनोडूतैर्गजैश्च घनसंनिभैः। भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम् ॥' इत्यत्र परस्परोपमायामतिव्याप्तिः । सदृशान्तरव्यवच्छेदफलकत्वेन विशिष्यमाणे तु तस्मिन्नस्मदुक्त एव पर्यवसानम् । यच्च विमर्शिनीकारेणोक्तम् “स च वाक्यभेदः शाब्द आर्थश्च । तत्र शाब्दो यथा-'रजोभिः स्यन्दनोद्भूतैः' इत्यादि। अस्याश्चोपमानान्तरतिरस्कार एव फलम् । अत एवोपमेयेनोपमेत्यन्वर्थाभिधत्वम्" इति, तत्तुच्छम् । न हि 'रजोभिः स्यन्दनो तैः' इत्यत्रोपमानान्तरतिरस्कारः प्रतीयते । द्वयोरुपमयोरेकधर्मकत्वाभावात्, आद्याया उपमाया अनुगामिधर्मभावायामिति । उपमेयोपमानविकायामित्यर्थः । विधवतीत्यादीन्याचारविबन्तानि । यथासंख्यमन्वयः । न चेति । नहीत्यर्थः । तथा च लक्ष्यत्वान्नातिव्याप्तिरिति भावः । मात्रपदव्यवच्छेद्यं स्फुटत्वायाह--तृतीयेति । सदशान्तरोति । तृतीयसदृशेत्यर्थः । विशीति । विशेषविषयीकृते वित्यर्थः । तस्मिन्नुपमानोपमेयत्वे । अस्मदिति । तृतीयसदृशव्यवच्छेदेत्यायुक्त एवेत्यर्थः । विमर्शिनीति । अलंकारसर्वस्वव्याख्याकारेणेत्यर्थः । स चेति । मूलीयत्वेन प्रागुक्त इत्यर्थः । अस्या उपमेयोपमायाः । उपमानान्तरेति । तृतीयसदृशेत्यर्थः । हि यतः। अनुगामीति । रजोरूपेत्यर्थः । बिम्बेति । For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy