SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। यथा वा'विमलतरमतिगभीरं सुपवित्रं सत्ववत्सुरसम् । हंसावासं स्थानं मानसमिह शोभते नितराम् ॥' अत्रानेकार्थानामपि शब्दानां प्रकरणेन कृतेऽपि शक्तिसंकोचे तन्मूलकेन ध्वननेन प्रतीयमानस्य सरोवररूपस्यार्थान्तरस्याप्रस्तुतस्याभिधानं मा भूदिति प्रकृताप्रकृतयोरुपमानोपमेयभावः प्रधानवाक्यार्थतया कल्प्यते । द्वितीयो यथा'अद्वितीयं रुचात्मानं दृष्ट्वा किं चन्द्र दृप्यसि । भूमण्डलमिदं सर्व केन वा परिशोधितम् ॥' । अत्र मूढादिपदाप्रयोगादसूयादेरप्रत्ययान्मुख्यतयोपमैव व्यङ्गया। अथात्र सादृश्यस्य पदार्थान्तरत्वे बोधो विचार्यते-अरविन्दसुन्दरमित्यत्रारविन्दनिरूपितसादृश्यं प्रयोजकं लक्ष्यते । तच्च सुन्दरपदार्थेकदेशेन सौन्दर्येणाभेदसंसर्गेणान्वेति । तेनारविन्दनिरूपितसादृश्यप्रयोजकाभिन्नसौन्दर्यवदभिन्नमिति धीः । निपातातिरिक्तनामार्थयोभैदेनान्वयस्याव्युत्पन्नत्वादभेदानुसरणम् । एकदेशान्वयस्तु देवदत्तस्य नप्तेत्यादाविवात्राप्यम्युपेयः । 'समासस्यैव विशिष्टार्थे शक्तिः' इत्येके । 'अरविन्दपदमेव लक्षणया सर्वार्थबोधकं सुन्दरपदं तु तात्पर्यग्राहकम्' इत्यपरे । तथा अरविन्दमिव सुन्दरमित्यत्रेवाथै सादृश्येऽरविन्दस्य निरूपितत्वसंसर्गेणान्वयः । तस्य च प्रयोजकतासंसर्गेण सौन्दर्ये । एवं चारविन्दनिरूपितसादृश्यप्रयोजकसौन्दर्यवदभिन्नमिति । अरविन्दमिवेत्यत्र त्वरविन्दनिरूपितसादृश्यवदिति निपातजन्योपस्थितिप्रयोज्यप्रकारतानिरूपित. सत्त्वं प्राणी बलं च । रसो जलं शृङ्गारादिश्च । हंस: पक्षी परमात्मा च । अत्रेति । उदाहरणद्वये इत्यर्थः । अद्वितीयमिति । वाशब्दो हेत्वर्थः । असूयादेरप्रत्ययादिति। अत्र मूढादिपदाप्रयोगेऽपि किं चन्द्र दृप्यसीत्याक्षेपणासूया व्यङ्गया न वेति सहृदयविभाव्यम् । लप्स्य(क्ष्य)त इति । अरविन्दपदेनेति शेषः। अभेदानुसरणमिति। प्रयोजकसौन्दर्ययोरिति भावः । ननु नित्यसाकायस्थले तथाङ्गीकारेऽप्यत्र न तथेति चेदत एव मतान्तरमाह-समासेति । अत्र मते गौरवान्मतान्तरमाह-अरविन्देति। तथेति । समस्तवव्यस्तेऽपीत्यर्थः । ननु विशेष्यतया नामार्थप्रकारकारकबोधे विशेष्यतया विभक्तिजन्योपस्थितेर्हेतुत्वात्कथमिवार्थसादृश्येऽरविन्दस्यान्वयस्तस्य च कथं सौन्दर्येऽन्वयोऽत For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy