SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। पण्डितराजश्रीजगन्नाथविरचितो रसगङ्गाधरः। नागेशभकृतया गुरुमर्मप्रकाशाख्यव्याख्यया समेतः । प्रथममाननम् । स्मृतापि तरुणातपं करुणया हरन्ती नृणा मभङ्गरतनुत्विषां वलयिता शतैर्विद्युताम् । कलिन्दगिरिनन्दिनीतटसुरद्रुमालम्बिनी मदीयमतिचुम्बिनी भवतु कापि कादम्बिनी ॥ नत्वा गङ्गाधरं मर्मप्रकाशं तनुते गुरुम् । रसगङ्गाधरमणेरतिगूढार्थसंविदे ॥ याचकानां कल्पतरोररिकक्षहुताशनात् । नागेशः शृङ्गवेरेशरामतो लब्धजीविकः ॥ प्रारिप्सितप्रतिबन्धकदुरितशमनाय शृङ्गारालम्बनादिविभावतया तद्देवतात्वेन च समुचितस्वेष्टदेवतावस्तुनिर्देशरूपं मङ्गलमाचरञ्शिष्यशिक्षायै व्याख्यातृश्रोतणामनुषङ्गतो मङ्गलाय च निबध्नाति-स्मृतापीति । कादम्बिनी मेघपतित्वेनाध्यवसिता कृष्णमूर्तिः। विलक्षणश्यामत्वात्सकलमेघकार्यकरत्वाच्च । अत एव मेघत्वेनाध्यासः । कापीत्यनेनात्र तद्धर्मसत्त्वेऽपि ततोऽधिककार्यकारित्वेन प्रसिद्ध कादम्बिनीतो व्यतिरेकस्तत्र बोध्यते । मतिचुम्बिनी मतिविषयः । भवत्विति प्रार्थने लोट् । व्यतिरेकपोषकं विशेषणत्रयम् । प्रसिद्धा सा तु दृष्टा वर्षणद्वारा स्पृष्टा वा स्वाभाव्या द्रुषस्थभान्वातपान्यतापं केषांचिन्न तु सर्वेषां भूतभविष्यद्वर्तमानभेदेन हृतवती । इयं तु स्मृतापि । दृष्टादिसमुच्चायकोऽपिः । तरुणातपम् । तमपि करुणया न तु यथाकथंचित् । नृणां सर्वेषां न तु केषांचित् । हरन्ती न तु जहार हरिष्यति वा । किं च सा भङ्गशीलतनुकान्तिविद्युता वेष्टिता। इयं तु चिरकालस्थायिशरीरकान्तीनां वियतां तत्त्वेनाध्यावसितानां गोपाङ्गनानां शतैर्न त्वेकद्वित्र्यादिभिर्वलयिता वेष्टिता। यद्वा 'धान्येन धनवान्' इतिवत्तृतीया । तदभिन्नसंजात. वलया । कलिन्दाख्यमहीधरोत्पन्नयमुनातीरे सुरद्रुमा नीपाः । तेषां तत्त्वं तु हरिप्रिय For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy