________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ द्वितीयो वर्गः] राजनिघण्टुसहितः।
गुणाः-लघु तीक्ष्णोष्णमुत्क्लेदि सूक्ष्म वातानुलोमनम् । सतिक्तं कटुकं क्षारं विद्याल्लवणमौद्भिदम् ॥ ३३ ॥ पांशुजं तिक्तमत्युग्रं व्यवायि कटु पाचितम् ।
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गःरोमकमौद्भिदमुक्तं वसुकं वसु पांशुलवणमूखरजम् । पांसवमौखरमैरिणमौर्व सार्वसहं रुद्रैः॥ ४०॥
गुणाः-रोमकं तीक्ष्पमत्युष्णं कटु तिक्तं च दीपनम् । दाहशोषकरं ग्राहि पित्तकोपकरं परम् ॥ ४१ ॥
(१५) सामुद्रलवणम् । सामुद्रलवणं प्राहुः क्षारं च शिशिरं तथा । समुद्रजं सागरज लवणोदधिसंभवम् ॥ ३४॥
गुणाः—सामुद्रलवणं पाके नात्युष्णमविदाहि च । भेदनं स्निग्धमीपञ्च शूलनं नातिपित्तलम् ॥ ३५॥
राजनिघण्टौ पिप्पल्यादिः पष्ठो वर्ग:-- सामुद्रकं तु सामुद्रं समुद्रलवणं शिवम् । वंशिरं सागरोत्थं च शिशिरं लवणाब्धिजम् ॥ ३८॥
गुणाः—सामुद्रं लघु हृद्यं च पलितास्रदपित्तदम् । निदाहि कफवातघ्नं दीपनं रुचिकृत्परम् ॥ ४३ ॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग:
नीलकाचोद्भवम् । (लवणविशेषः) ॥ ३ ॥ नीलकाचोद्भवं काचतिलकं काचसंभवम् । काचसौवर्चलं कृष्णलवणं पाक्यजं स्मृतम् ॥४४॥ काचोत्थं हृद्यगन्धं च तत्काललवणं तथा । कुरुविन्दं काचमलं कृत्रिमं च चतुर्दश ॥ ४५ ॥ _गुणा:-काचादिलवणं रुच्यमीपत्सारं च पित्तलम् । दाहकं कफवातघ्नं दीपनं गुल्मशूलहृत् ॥ ४६॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग:
गाढलवणम् (लवणविशेषः )॥ ४ ॥ गाढादिलवणं शुभ्रं पृथ्वीजं गडदेशजम् । गडोत्थं च महारम्भं साम्भरं सम्भरोद्भवम् ॥ ४७ ॥
गुणाः—गडोत्थं तूष्णलवणमीषदम्लं मलापहम् । दीपनं कफवातघ्नमर्शोनं कोष्टशोधनम् ॥४८॥
For Private and Personal Use Only