SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७२ धन्वन्तरीयनिघण्टुः- [शतपुष्पादिकोराजनिघण्टौ प्रभद्रादिर्नवमो वर्गःइन्द्रयवा तु शक्राहा शक्रबीजानि वत्सकः । तथा वत्सकबीजानि भद्रजा कुटजाफलम् ॥ २१॥ ज्ञेया भद्रयवा चैवं बीजान्ता कुटजाभिधा । तथा कलिङ्गबीजानि पर्यायैर्दशधाभिधा॥ २२॥ ___गुणाः-इन्द्रयवा कटुस्तिक्ता शीता कफवातरक्तपित्तहरा । दाहातिसारशमनी नानाज्वरदोषशूलमूलनी ॥ २३ ॥ (८) यवक्षारः (विक्षारान्तर्गतः ) यवक्षारः स्मृतः पाक्यो यजो यावशूकजः । यवाहः शूकजो यव्यो यावशूको यवाग्रजः॥१७॥ गुणाः--यवक्षारः कटूष्णश्च कफवातोदरातिजित् । आमशूलाश्मरीकृच्छ्रविषदोषहरः सरः॥ १८ ॥ उष्णो विरूक्षणस्तीक्ष्णो दीपनः कफवातजित् । पित्तास्रदूषणो हृयो यवजः क्षार उच्यते ॥ १९ ॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गःयवक्षारः स्मृतः पाक्यो यवजो यवसूचकः । यवशूको यवाहश्च यवापत्यं यवाग्रजः ॥२४॥ गुणाः-यवक्षारः कटूष्णश्च कफवातोदरातिनुत् । आमशूलाश्मरीकृच्छ्रविषदोपहरः सरः॥२५॥ (९) सर्जिक्षारः (त्रिक्षारान्तर्गतः ) क्षारोऽन्यः सर्जिकाक्षारः सर्जिकाऽथ सुचिका । सुवचिकः सुवर्णोऽथ सुखवर्चः स एव च ॥ २०॥ गुणाः--सर्जिकोष्णा कटुः क्षाररसा वातकफौ जयेत् । गुल्माध्मानकृमीन्मान्यमेदोजठरनाशिनी ॥ २१॥ राजनिघण्टौ पिप्पल्यादिः पष्ठो वर्ग:-- स्वर्जिक्षारः स्वर्जिकश्च क्षारस्वर्जी सुखार्जिकः । सुवर्चिकः सुवर्ची च सुखवर्चा वसूपमः ॥ २६ ॥ गुणाः-स्वर्जिकः कटुरुष्णश्च तीक्ष्णो वातकफार्तिनुत् । गुल्माध्मानकृमीन्हन्ति वणजाठरदोषनुत् ॥ २७॥ १ क. ङ. वजः शूकजः स्मृतः । य' । २ ङ. परः । ३ क, ख, ग. स उच्यते । गु। For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy