________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३९४
परिशिष्टो
( ४ ) राजपत्नीनामानि ।
अथ राज्ञी च पट्टा महिषी राजवल्लभा । भोगिन्योऽन्या विलासिन्यः संभु यास्तु पार्थिवः || ३ || राजभोग्याः सुमुख्यो यास्ता भट्टिन्य इति स्मृताः ।
( ५ ) वेश्या ।
वेश्या तु गणिका भोग्या वारस्त्री स्मरंदीपिका ॥ ४ ॥ ( ६ ) ब्राह्मणः ।
ब्रह्मा तु ब्राह्मणो विप्रः षट्कर्मा च द्विजोत्तमः । ७ ) क्षत्रियः ।
( राजा तु सार्वभौमः स्यात्पार्थिवः क्षत्रियो नृपः ॥ ५ ॥ (८) वैश्यः ।
वैश्यस्तु व्यवहर्ता विवार्तिको वाणिजो वणिक् ।
Acharya Shri Kailassagarsuri Gyanmandir
( ९ ) शूद्रः ।
शूद्रः पज्जचतुर्थः स्याद्विजदास उपासकः || ६ || विप्रः क्षत्रो वैश्यशूद्रौ च वर्णाश्चत्वारोऽमी तत्र पूर्वे द्विजाः स्युः । एषामेव प्रातिलोम्यानुलोम्याज्जायन्तेऽन्या जातयः संकरेण ॥ ७ ॥
१ ज. ट. वीथिका ।
[ मनुष्यादि:
(१०) बालसामान्यनामानि ।
वाल: पाकोsर्भको गर्भः पोतकः पृथुकः शिशुः । शावोsर्भो बालिशो डिम्भो बदुर्माणवको मतः ॥ ८ ॥
( ११ ) शिशुविशेषनामानि ।
जातोऽर्भकः पक्षदिनेन मासतः पाकस्त्रिभिस्तैरथ पोतकाभिधः । षभिस्तु मासैः पृथुकोऽब्दतः शिशुस्त्रिभिर्वदुर्माणवकश्च सप्तभिः ॥ ९ ॥ (१२) बाल्याद्यवस्थाचतुष्टयपरिमाणम् ।
बालोऽब्दैः पञ्चदशभिः कुमारस्त्रिंशता स्मृतः । युवा पञ्चाशता वर्षैर्वृद्धः स्यादत उत्तरैः ॥ १० ॥
(१३) कौमाराद्यवस्थावधिः ।
कौमारं पञ्चमाब्दान्तं पौगण्डं दशमावधि । कैशोरमापञ्चदशायौवनं तु ततः परम् ॥ ११ ॥
For Private and Personal Use Only