SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५० परिशिष्टो [ मूलकादि:(१३) नीलालुः। नीलालुरसितालुः स्यात्कृष्णालुः श्यामलालुकः । गुणाः-नीलालुमधुरः शीतः पित्तदाहश्रमापहः ॥ ३२ ॥ (१४) शुभ्रालुः। शुभ्रालुमहिषीकन्दो लुलायकन्दश्च शुक्लकन्दश्च । सर्पाख्यो वनवासी विषकन्दो नीलकन्दोऽन्यः ॥ ३३ ॥ गुणाः--कटूष्णो महिषीकन्दः कफवातामयापहः । मुखजाड्यहरो रुच्यो महासिद्धिकरः सितः ॥ ३४ ॥ (१५) हस्तिकन्दः । हस्तिकन्दो हस्तिपत्रः स्थूलकन्दोऽतिकन्दकः । बृहत्पत्रोऽतिपत्रश्च हस्तिकर्णः सुकर्णकः ॥ ३५ ॥ त्वग्दोषारिः कुष्ठहन्ता गिरिवासी नगाश्रयः । गजकन्दो नागकन्दो ज्ञेयो द्विसप्तनामकः ॥ ३६ ॥ गुणाः-हस्तिकन्दः कटूष्णः स्यात्कफवातामयापहः । त्वग्दोषश्रमहा कुष्ठविषवीसर्पनाशकः ॥ ३७॥ (१६) कोलकन्दः। कोलकन्दः कृमिघ्नश्च पञ्जलो वस्त्रपञ्जलः । पुटालुः सुपुटश्चैव पुटकन्दश्च सप्तधा ॥ ३८॥ गुणाः-कोलकन्दः कटुश्चोष्णः कृमिदोपविनाशनः । वान्तिविच्छर्दिशमनो विपदोषनिवारणः ॥ ३९ ॥ (१७) विष्णुकन्दः। विष्णुकन्दो विष्णुगुप्तः सुपुटो बहुसंपुटः । जलवासो बृहत्कन्दो 'दीर्घवृत्तो हरिप्रियः ॥ ४०॥ गुणाः-विष्णुकन्दस्तु मधुरः शिशिरः पित्तनाशनः । दाहशोफहरो रुच्यो संतर्पणकरः परः ॥४१॥ (१८) धरणीकन्दः। धरणी धारणीया च वीरपत्नी सुकन्दकः । कन्दालुवनकन्दश्च कॅन्दाद्यो दण्डकन्दकः ॥४२॥ १ ज. दीर्घवृन्तो। २ झ. वीरपत्री। ३ ज. सुगन्धकः । ४ ज. कन्दादयो । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy