SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०४ धन्वन्तरीयनिघण्टुः- [मिश्रकादि:गुणाः-सर्वोषधी त्रिदोषनी मूत्रदाहापहा मता । रसायन्यर्शःपित्तनी मुखरोगविनाशिनी ॥ ३९॥ राजनिघण्टौ मिश्रकादिविंशो वर्गः-- कुष्ठमांसीहरिद्राभिर्वचाशैलेयचन्दनैः । मुराकरमुस्ताभिः सर्वोषधमुदाहृतम् ॥ १७ ॥ (२१) सुगन्धामलकम् । * सौंषधिकसंयुक्ताः शुष्काचाऽऽमलकत्वचः । सुगन्धामलकं ह्येतनिर्दिशन्ति विचक्षणाः ॥ ४०॥ गुणाः-सुगन्धामलकं वृष्यं पवित्रं मूत्रदोषनुत् । योनिदोषप्रशमनं हन्ति दोषत्रयं तथा ॥ ४१॥ राजनिघण्टौ मिश्रकादिविंशो वर्गः-- * । यदा तदाऽयं योगः स्यात्सुगन्धामलकाभिधः ॥१८॥ (२२) सुगन्धपञ्चकम् (पञ्चसुगन्धिकम् ) कोलकं पूगफलं लवङ्गकुसुमानि च । जातीफलानि कर्पूरमेतत्पश्चसुगन्धिकम् ॥ ४२॥ गुणाः–पञ्चसुगन्धिकं शीतं रक्तपित्तविनाशनम् । हन्त्याशु मुखवैगन्ध्य पीनसं च कफास्रजित् ॥ ४३ ॥ राजनिघण्टौ मिश्रकादिविंशो वर्गःकर्पूरकङ्कोललवङ्गपुष्पगुवाकजातीफलपश्चकेन । समांशभागेन च योजितेन मनोहरं पञ्चसुगन्धिकं स्यात् ॥ १९ ॥ (२३) परार्धम् । चन्दनं कुसुमं तुल्यं परार्धमभिधीयते । (२४) वाट्यपुष्पकम् । त्रिभागर्कुसुमं यच्च तदुक्तं वाठ्यपुष्पकम् ॥ ४४ ॥ (२५) यक्षकर्दमः । कुश्मागरुकर्पूरकस्तूरीचन्दनानि च । महासुगन्ध इत्युक्तो नामतो यक्षकदमः॥४५॥ १ ग. ण. कुङ्कुमं । २ झ. ण. कुङ्कुम । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy