SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७० धन्वन्तरीयनिघण्टुः- [सुवर्णादिःवराहः स्तब्धरोमा च रोमशः सूकरः किरिः। वक्रदंष्ट्रः किटिष्ट्री क्रोडो दन्तायुधो बली ॥ ४१३ ॥ पृथुस्कन्धश्च भूदारः पोत्री घोणान्तभेदनः। कोलः पोत्रायुधः शूरो बढपत्यो रदायुधः ॥ ४१४ ॥ अन्यस्तु विड्वराहः स्याद्रामीणो ग्रामसूकरः । ग्राम्यक्रोडो ग्राम्यकोलो विष्ठाशी दारकश्च सः॥ ४१५॥ गुणाः-चराहमांसं गुरु वातहारि वृष्यं बलस्वेदकर वनोत्थम् । तस्माद्गुरु ग्रामवराहमांसं तनोति मेदोबलवीर्यवृद्धिम् ॥ ४१६ ॥ (६९) मृगः। मृगोऽथ हरिणो न्यङ्कुः सारङ्गः पृषतो रुरुः । एणः श्यामलपृष्ठश्च कुरङ्गथारुलोचनः ॥ ३९९ ॥ गुणाः-एणमासं हिमं रुच्यं ग्राहि दोषत्रयापहम् । षडूस बलदं पथ्य लघु हा कफास्रजित् ॥ ४०० ॥ राजनिघण्टौ सिंहादिरेकोनविंशो वर्गःमृगः कुरङ्गो वातायुः कृष्णसारः सुलोचनः। हरिणोऽजिनुयोनिः स्यादेणः पृषत इत्यपि ॥ ४१७ ॥ ककुवागथ सारङ्गः शाखिशृङ्गश्च चित्तलः । अन्यश्च भारशङ्गः स्यान्महाशृङ्गो वनप्रियः ॥ ४१८ ॥ रुरुस्तु रोहिषो रोही स्यान्यकश्चैव शम्बरः । नीलकः पृषतश्चैव रङ्कः शबलपृष्ठकः ॥ ४१९ ॥ शिखयुपकुरङ्गः स्याच्छ्रीकारी च महाजवः । जवनो वेगिहरिणौ जयालो जाधिकाहयः ॥ ४२०॥ (७०) महिषः। महिषः कासरः शृङ्गी श्यामः कृष्णो लुलायकः । विषाणी कलुषो दंशी पीनस्कन्धो रजस्वलः ॥४०१ ॥ महिषी मन्दगमना महाक्षीरा पयस्विनी । * लुलायकान्ता कलुषा तुरङ्गद्वेषिणी च सा ॥ ४०२॥ गुणाः स्निग्धोष्णो महिषस्तिक्तो निद्राशुक्रबलपदः । मधुरस्तर्पणो वृष्यो गुरुमासस्य दायकृत् ॥ ४०३ ॥ तद्वदरण्यजो ज्ञेयो विशेषाच्छोणिते हितः ॥ ४०४॥ ___ राजनिघण्टौ सिंहादिरेकोनविंशो वर्ग: महिषः कासरः क्रोधी कलुषश्चापि सैरिभः । लुलायमत्तरक्ताक्षा विषाणी कवली वली ॥ ४२१ ॥ महिषी मन्दगमना महाशीरा पयस्विनी । *॥४२२॥ १ ज. पि । कुकुवा । ८. "पि । कूकूवा । २ ज. झ. ङ्गः शिखि । ३ ज. शम्बरः । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy