SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ प्रथमो वर्गः] राजनिघण्टुसहितः। (राजनिघण्टौ) शाल्मल्यादिरष्टमो वर्गः खादिरः ( खदिरनिर्यासः ) ॥७॥ खादिरः खदिरोद्भूतस्तत्सारो रङ्गदः स्मृतः । ज्ञेयः खदिरसारश्च तथा रङ्गः षडाह्वयः॥४१॥ गुणाः-कटुकः खादिरः सारस्तिक्तोष्णः कफवातहत् । व्रणकण्ठामयनश्च रुचिकृद्दीपनः परः ॥४२॥ (८) निम्बः ( उत्तराभाद्रपदा) निम्बो नियमनो नेता पिचुमन्दः सुतिक्तकः । अरिष्टः सर्वतोभद्रः प्रभद्रः पारिभद्रकः ॥ २९॥ गुणाः-निम्वस्तिक्तरसः शीतो लघुः श्लेष्मास्रपित्तनुत् । कुष्ठकण्डूव्रणान्हन्ति लेपाहारादिशीतलः ॥ ३० ॥ अपकं पाचयेच्छोफं व्रणं पकं विशोधयेत् । राजनिघण्टौ प्रभद्रादिर्नवमो वर्ग:अथ निगदितः प्रभद्रः पिचुमन्दः पारिभद्रको निम्बः । काकफलः कीरेष्टो नेताऽरिष्टश्च सर्वतोभद्रः ॥ ४३ ॥ धमनो विशीर्णपर्णी पवनेष्टः पीतसारकः शीतः । वरतिक्तोऽरिष्टफलो ज्येष्ठामालकश्च हिङ्गुनिर्यासः ॥ ४४ ॥ छर्दनश्वाग्निधमनो ज्ञेया नाम्नां तु विंशतिः॥ गुणाः-प्रभद्रकः प्रभवति शीततिक्तकः कफव्रणक्रिमिवमिशोफशान्तये । बलासभिद्बहुविषपित्तदोपजिद्विशेषतो हृदयविदाहशान्तिकृत् ॥ ४५ ॥ महानिम्बः (निम्बविशेषः ) ॥ ८॥ महानिम्बः स्मृतोद्रेकी कार्मुको विषमुष्टिकः । केशमुष्टिनिम्बरको रम्यकोsक्षीर एव च ॥ ३१॥ गुणाः-महानिम्बो रसे तिक्तः शीतपित्तकफापहः । कुष्ठरक्तविनाशी च विषूची हन्ति शीतलः ॥ ३२॥ राजनिघण्टौ प्रभद्रादिर्नवमो वर्गःमहानिम्बो मदोद्रेकः कार्मुकः केशमुष्टिकः । काकाण्डो रम्यकोऽक्षीरो महातिक्तो हिमद्रुमः ॥ ४६ ॥ १ झ. छर्दिन । २ ज. र्दनः स्यान्निध । ३ ग. "म्बवरोर। For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy